Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 127
________________ १२२ सयलसत्थाई सकलानि च तानि शास्त्राणि सकलशास्त्राणि व्याकरणछंदोलंकारतर्क सिद्धांतादीनि परं जाम ण झायइ अप्पा यावत्कालं चैतन्यात्मानं न ध्यायति भेदज्ञानेन कायादिभ्यः पृथगवबुध्य स्वसंवेदनेन यावन्न संवेदयति तावत्तस्य प्राणिनः क्षपकस्य मोक्षो नास्ति । को नाम एवमाचष्टे । जिणो भणइ निखिलार्थसार्थसाक्षात्कारी केवली जिनः भणति कथयति । उक्तंच -- आराधनासारः पदमिदं ननु कर्म दुरासदं सहजबोधकला सुलभं किल । तत इदं निजबोधकलाबलात्कलयितुं यततां सततं जगत् ॥ यो न वेत्ति परं देहे देवमात्मानमव्ययम् | लभते न स निर्वाणं तप्त्वापि परमं तपः ॥ १११ ॥ एवंविधं विदधाना भव्यात्मानोऽवश्यं मुक्तिभाजो भवतीति निगदति; चइऊण सव्वसंग लिंगं धरिऊण जिणवरिंदाणं । अप्पाणं झाऊणं भविया सिज्झति णियमेण ॥ ११२ ॥ त्यक्त्वा सर्वसंगं लिंगं धृत्वा जिनवरेंद्राणाम् । आत्मानं ध्यात्वा भव्याः सिध्यंति नियमेन ॥ ११२ ॥ सिज्झति सिध्यंति सिद्धिं साधयंति । के । भविया भव्यात्मानः । कथं सिध्यंति । णियमेण निश्वयेन । किंकृत्वा । चइऊण सव्वसंग संग: परिग्रहो बाह्याभ्यंतररूपः । तत्र बाह्यो दशविधः । यदुक्तम्- क्षेत्रं वास्तु धनं धान्यं द्विपदं च चतुष्पदम् । आसनं शयनं कुष्यं भांडं चेति वहिर्दश ॥ अभ्यंतरश्च परिग्रहश्चतुर्दशभेदभिन्नः । यदुक्तम् - - मिथ्यात्ववेदरागाहासप्रमुखास्तथा च षड् दोषाः । चत्वारश्च कषायाश्चतुर्दशाभ्यंतरा ग्रंथाः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134