Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 109
________________ १०४ आराधनासारः आलोच्य सर्वमेनः कृतकारितमनुमतं च निर्व्याजम् । आरोपयेन्महाव्रतमामरणस्थायि निःशेषम् ॥ आलोचनाविधिश्चायं कृतकारितानुमननैस्त्रिकालविषयं मनोवचनकायैः । परिहृत्य कर्म सर्वं परमं नैःकर्ममवलंवे॥ मोहायदहमकार्ष समस्तमपि कर्म तत्प्रतिक्रम्य । आत्मनि चैतन्यात्मनि निःकर्मणि नित्यमात्मना वर्ते ।। मोहविलासविभितमिदमुदयत्कर्म सकलमालोच्य । आत्मनि चैतन्यात्मनि निःकर्मणि नित्यमात्मना वर्ते ॥ प्रत्याख्याय भविष्यत्कर्म समस्तं निरस्तसंमोहः । आत्मनि चैतन्यात्मनि निःकर्मणि नित्यमात्मना वर्ते ॥ समस्तमित्येवमपास्य कर्म त्रैकालिकं शुद्धनयावलंबी । विलीनमोहो रहितं विकारैश्चिन्मात्रमात्मानमाथवलंबे ॥ विगलंतु कर्मविषतरुफलानि मम भुक्तिमतरेणैव । संचेतयेहमचलं चैतन्यात्मानमात्मानम् ।। इति । तदनु शोकं भयमवसादं क्लेशं कालुष्यमरतिमपि हित्वा । सत्त्वोत्साहमुदीर्य च मनः प्रसायं श्रुतैरमृतैः ॥ आहारं परिहाप्य क्रमशः स्निग्धं विवर्धयेत्पानम् । स्निग्धं च हापयित्वा खरपानं पूरयेत्क्रमशः ॥ खरपानहापनामपि कृत्वा कृत्वोपवासमपि शक्त्या । पंचनमस्कारमनास्तनुं त्यजेत्सर्वयत्नेन ॥ एवमुत्तमा गतिः साधिता ते कीदृशा इत्याह । धण्णा ते भयवंता धन्यास्ते भगवंतः ते पुरुषाः क्षपका धन्याः कृतपुण्याः तथा भगवंतः जगत्पूज्या इत्यर्थः ॥ ९१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134