Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
आराधनासारः
“ अखंडितमनाकुलं ज्वलदनंतमंतर्बहि
महः परममस्तु नः सहजमुदिलासं सदा । चिदुच्छलननिर्भरं सकलकालमालंबतो
यदेकरसमुल्लसल्लवणखिल्ललीलायितम् " ॥ ७८ ॥ प्रागुक्तलक्षणशून्यतापरिणतः आत्मा शुद्ध एव भावो भवति स शुद्धभावः किमारव्यो भवतीत्यावेदयति;जो खलु सुद्धो भावो सो जीवो चेयणावि सा उत्ता। तं चेव हवदिणाणं दंसणचारित्तयं चेव ॥ ७९ ॥
यः खलु शुद्धो भावः स जीवश्चेतनापि सा उक्ता । व तच्चैव भवति ज्ञानं दर्शनचारित्रं चैव ॥ ७९ ॥
जो खलु सुद्धो भावो यः खलु निश्चयेन शुद्धो रागद्वेषमोहादिदोघोज्झितः भावो भवति स एव भावो जीवः चतुर्भिर्द्रव्यभावप्राणैः पूर्वमजीवत् संप्रति जीवति अग्रे च जीविष्यति इति जीवः ज्ञानदर्शनोपयोगमयः तथा चेयणावि सा उत्ता स एव भावः सा जगत्प्रसिद्धा चेतना उक्ता प्रतिपादिता । स एव भाव तं चेव हवदि इत्यादि तत् विशुद्धं ज्ञानं दर्शनं चारित्रं भवति । यदुक्तम्
तदेकं परमं ज्ञानं तदेकं शुचिदर्शनम् ।
चारित्रं च तदेकं स्यात्तदेकं निर्मलं तपः ॥ नमस्यं च तदेवैकं तदेवैकं च मंगलम् ।
उत्तमं च तदेवैकं तदेव शरणं सताम् ॥ अनुच-" आक्रामन्नविकल्पभावमचलं प:नयाभ्यां विना
सारो यः समयस्य भाति निभृतैरास्वाद्यमानः स्वयम् । विज्ञानैकरसः स एष भगवान् पुण्यः पुराणः पुमान्
ज्ञानं दर्शनमप्ययं किमथवा यत्किंचनैकाप्ययम्" ॥७९॥ यः खलु शुद्धो भावः स एव रत्नत्रयमित्याचष्टे;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134