Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 102
________________ टीकासहितः। यथा लवणं पयोयोगमासाद्य सद्यो विलीयते तथा यस्य चित्तं शुद्धात्मयोगे बिलयमुपढौकते तस्य चिदानंदोवश्यं प्राकट्यमुपगच्छति । अस्मिंश्वात्मनि अनुभवमुपयाते द्वैतं न प्रतिभाति । यदुक्तम् उदयति न नयश्रीरस्तमेति प्रमाण क्वचिदपि च न विद्मो याति निक्षेपचक्रम् । किमपरमभिदध्ये धाग्नि सर्वकषेस्मि ननुभवमुपयात भाति न द्वैतमेव ॥ किंविशिष्टः आत्मानलः । सुहासुहडहणो नरेंद्रसुरेंद्रफणींद्रसाम्राज्योदयहेतुः शुभकर्म नारकादिदुःखकारणमशुभकर्म शुभं च अशुभं च शुभाशुभे तयोर्दहनः शुभाशुभकर्मेधनसंघातप्लोषकारक इत्यर्थः ॥ ८४ ॥ स्वात्मोत्थपरमानंदसुधासिंधौ निमने मनसि आत्मैव परमात्मा भवतीत्यावेदयति उव्वसिए मणगेहे णडे णीसेसकरणवावारे । विप्फुरिए ससहावे अप्पा परमप्पओ हवइ ॥ ८५ ॥ उद्वसिते मनोगेहे नष्टे निःशेषकरणव्यापारे । विस्फुरिते स्वसद्भावे आत्मा परमात्मा भवति ॥ ८५ ॥ अप्पा परमप्पओ हवइ भवति संजायते । कोसौ । आत्मा शरीराधिष्ठानो जीवः । कथंभूतो भवति । परमात्मा भवति । यदुक्तम् उपास्यात्मानमेवात्मा जायते परमोऽथवा । मथित्वात्मानमात्मैव जायतेऽनिर्यथा तरुम् ॥ कस्मिन् सति आत्मा परमात्मा भवतीत्याह । उव्वसिए मणगेहे मनोंतरंगं तदेव गहें तस्मिन् मनोगेहे उद्दसिते सति विनष्टे सति सर्वविषयव्यापारेभ्यः पराङ्मुखतामागते सति । मनसो विनाशकरणं परमात्मध्यान-. मेव । न केवलं उद्दसिते मनोगेहे । णहे णीसेसकरणवावारे नष्टे निः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134