Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
टीकासहितः।
चित्तमत्तकारणा नचेद्धतो दुष्टबोधवनवह्निनाऽथवा ।
योगकल्पतरुरेष निश्चितं वांछितं फलति मोक्षमत्फलम् ॥ ततोवश्यं योगिना मनोगजाद्योगकल्पतरुयत्नेन रक्षणीय इति भावार्थः ॥८६॥ निःशेषकर्मविनाशे सति कीदृशं फलं भवतीत्यावेदयति;णीसेसकम्मणासे पयडेइ अणंतणाणचउखधं । अण्णेवि गुणा य तहा झाणस्स ण दुल्लहं किंपि॥८७॥ निःशेषकर्मनाशे प्रकटयत्यनंतज्ञानचतुःस्कंधं । अन्येपि गुणाश्च तथा ध्यानस्य न दुर्लभं किंचिदपि ॥ ८७ ॥ पयडेइ प्रकटीभवति। किं तत् । अणंतणाणचउर्खधं अनंतज्ञानादीनां चतुःस्कंधं अनंतज्ञानचतुःस्कंधं अनंतविज्ञानानंतवीर्यतानंतसौख्यत्वानंतदर्शनलक्षणं। कदा तदेतच्चतुष्टयं प्रकटीभवति । णीसेसकम्मणासे निःशेषाणि यानि कर्माणि निःशेषकर्माणि तेषां नाशः निःशेषकर्मनाशस्तस्मिन् निशेषकर्मनाशे सति । न केवलमनंतज्ञानचतुःस्कंधं प्रकटीभवति। अण्णेवि गुणा य तहा तथा तेनैव प्रकारेण अन्येपि अपरे गुणाः सूक्ष्मत्वाव्याबाधादयोऽनंतगुणाः प्रकटीभवन्ति तत्तत्कर्मक्षयाते ते गुणाः प्रकृष्टाः खलु जायते । तद्यथा
हम्बोधौ परमौ तदावृतिहतेः सौख्यं च मोहक्षयात् वीर्य विघ्नविघाततोऽप्रातहतं मूर्तिर्न नामक्षतेः । आयुनीशवशान जन्ममरणे गोत्रेण गोत्रं विना . सिद्धानां न च वेदनीयविरहादुःखं सुखं चाक्षयम् ॥ यैर्दुःखानि समाप्नुवंति विधिवज्जानंति पश्यति नो वीर्य नैव निजं भजंत्यसुभृतो नित्यं स्थिताः संसृतौ । कर्माणि प्रहतानि तानि महता योगेन यैस्ते सदा सिद्धानंतचतुष्टयामृतसरिन्नाथा भवेयुर्न किम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134