Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 103
________________ आराधनासारः शेषकरणव्यापार करणानामिद्रियाणां व्यापारः स्वस्वविषयेषु प्रवर्तनं करण: व्यापारः निःशेषश्चासौ करणव्यापारश्च निःशेषकरणव्यापारस्तस्मिन् निःशेष करणव्यापारे नष्टे सति परं करणव्यापार बहिरात्मा वारयितुं न शक्नोति किंतु तत्रैव रमते । यदुक्तं न तदस्तींद्रियार्थेषु यत्क्षेमंकरमात्मनः । तथापि रमते बालस्तत्रैवाज्ञानभावनात् ॥ ततश्च हृषीकेषु विजितेष्ववश्यं परात्मतत्त्वमाविर्भवति । यदुक्तम् संहृतेषु स्वमनोगजेषु यद्भाति तत्त्वममलात्मनः परम् । तद्तं परमनिस्तरंगतामनिरुय इह जन्मकानने ॥ ततश्च मनसि विनष्टे हृषीगणे प्रहतप्रसरे स्वस्वभावे विस्फुरिते आत्मैव परमात्मा भवतीति समुदायार्थः ॥ ८५ ॥ शून्यं ध्यानं विदधानस्य धातुः सकलकर्मविप्रमोक्षो भवतीत्याह;इयएरिसम्मि सुण्णे झाणे झाणिस्स वट्टमाणस्स। चिरबद्धाण विणासो हवइ सकम्माण सव्वाणं॥८६॥ इत्येतादृशे शन्ये ध्याने ध्यानिनो वर्तमानस्य । चिरबद्धानां विनाशो भवति स्वकर्मणां सर्वेषाम् ॥ ८ ॥ हवइ भवति जायते । कोसौ । विणासो विनाशो विलयः । केषां । सव्वाणं सकम्माणं सर्वेषां मूलोत्तरप्रकृतिभेदभिन्नानां स्वकर्मणां ज्ञानावरणादीनां । कस्य कर्मणां विनाशो भवतीत्याह । झाणिस्स ध्यानिनो योगिनः । कथम्भूतस्य योगिनः । इयएरिसम्मि सुण्णे झाणे वट्टमाणस्स इति प्रागुक्तप्रकारेण एतादृशे शून्ये ध्याने निर्विकल्पसमाधिलक्षणे प्रवर्तमानस्य । एतादृशे ध्याने प्रतिष्ठितस्य योगिनः कर्मक्षयो भवतीति निःसंशयः । तथाहि-योगिनोऽयं योगकल्पतरुवाछितं फलं तदा फलति यदा मनोगजेन नोत्पाटितो भवेत् । यदुक्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134