Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 106
________________ टीकासहितः। समये संभवः छद्मस्थानां तु यथाक्रमेण । किं विशिष्टः सिद्धः । द्रव्यकर्मभावकर्मनोकादिपरित्यक्तः । पुनः किं विशिष्टः । स्वभावस्थः स्वमावे चिदानंदात्मके तिष्ठतीति स्वभावस्थः । जानाति पश्यतीत्युक्त्वा ज्ञानदर्शनगुणद्वयं सिद्धात्मनः प्रकाशितं । यदुक्तम् विश्वं पश्यति वेत्ति शर्म लभते स्वोत्पन्नमात्यंतिकं नाशोत्पत्तियुतं तथाप्यचलकं मुक्त्यार्थिनां मानसे । एकीभूतमिदं वसत्यविरतिं संसारभारोज्झितं शांतं जीवधनं द्वितीयरहितं मुक्तात्मरूपं महः ॥ तथा ज्ञानादिगुणकथनेन ज्ञानशून्यं चैतन्यमात्रमात्मेति सांख्यमतं बुद्ध्यादिगुणोज्झितः पुमान इति यौगमतं च प्रत्युक्तम् ॥ ८८ ॥ सिद्धात्मानंतकालं यावदनंतसुखमनुभवतीत्याह;कालमणंतं जीवो अणुहवइ सहावसंभवं सुक्खं । इंदियविसयातीदं अणोवमं देहपरिमुक्को ॥ ८९॥ कालमनंतं जीवोऽनुभवति स्वभावसंभवं सौख्यम् । इंद्रियविषयातीतं अनुपमं देहपरिमुक्तः ॥ ८९ ॥ अणुहवइ अनुभवति । कोसौ । ज्ञानकमलाघनाश्लेषलालसःसिद्धजीवः । कां कर्मतामापन्नामनुभवति । सहायसुक्खसंभूई स्वभावसुखसंभूति स्वभावात् आत्मस्वभावात् यत् संभूतं सुखं अनंतसुखं तस्य संभूतिर्विभूतिलक्ष्मीः स्वभावसुखसंभूतिः तां स्वभावसुखसंभूतिं । अथवा स्वभावतो निसर्गतो या सुखसंभूतिः स्वभावसुखसंभूतिस्तां । किं विशिष्ट स्वभावसुखसंभूति। इंदियविसयातीदं इंद्रियविषयातीतं इंद्रियाणि स्पर्शनरसनघाणचक्षुःश्रोत्राणि तेषां विषयाः स्पर्शरसगंधवर्णशब्दास्तदतीतं इंद्रियविषयातीतं विषयविरहितामित्यर्थः । पुनः कथंभूतां । अनुपमा उपमारहितां । कथं यावदनुभवति । कालमणंतं अनंतकालपर्यंतमित्यर्थः । कीदृशः सिद्धः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134