Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 80
________________ टीकासहितः। , वजंतः स्वातंत्र्यादतलपरितापाय मनसः । ___ स्वयं त्यक्ता ह्येते शमसुखमनंतं विदधति ॥ ५६ ॥ हषीकजं सुखं सुखं न भवति ततस्तस्मिन् वैमुख्यं विधातव्यमिति स्तवयति;इंदियगयं ण सुक्खं परदव्वसमागमे हवे जम्हा । तम्हा इंदियविरई सुणाणिणो होइ कायव्वा ॥५७॥ इद्रियगतं न सौख्यं परद्रव्यसमागमे भवेद्यस्मात् । तस्मादिद्रियविरतिः सुज्ञानिनो भवति कर्तव्या ॥ ५७ ॥ भो क्षपक इंदियगयं ण सुक्खं इन्द्रियगतं न सौख्यं सौख्यं न भवति। कीदृशं । इन्द्रियगतं हृषीकसंभवं विचार्यमाणं सुखं न भवति किंतु सुखाभावमेव । कुतः. सौख्यं न भवति इत्याह । परद्रव्यसमागमे सति भवेत् जायेत परद्रव्याणि अन्नपानवसनतांबूलस्रक्चंदनवनितादीन तेषां समागमः सम्यगागमनं परद्रव्यसमागमस्तस्मिन् परद्रव्यसमागमे । यतः परद्रव्यसमागमादिंद्रियजं सुखमुपजायते ततश्च दुःखमेव । यदुक्तम् सुखमायति दुःखमक्षजं भजते मंदमतिर्न बुद्धिमान् । मधुलिप्तमुखाममंदधीरसिधारां खलु को लिलिक्षति ।। यदींद्रियजं सुखं वास्तवं न भवति तर्हि किं कर्तव्यमित्याह । तम्हा इंदियविरई तस्मात्कारणात् इंद्रियविरतिः विरमणं विरतिः इंद्रियेभ्यो विरति: इंद्रियविरतिः। इंद्रियजेषु सुखेषु वैमुख्यमित्यर्थः । कायव्वा कर्तव्या इंद्रियसंभवसुखविरतिः कर्तव्या हवे भवेत् । सा कस्य कर्तव्या भवतीत्याह। सुणाणिणो सुज्ञानिनः शोभनं ज्ञानं परमानंदामृतसंभृतावस्थस्य परमा- . त्मनः परिज्ञानं शोभनं ज्ञानमुच्यते सुज्ञानमस्यास्तीति सुज्ञानी तस्य सुज्ञानिनः । ततो विषयजं सुखं विनश्वरं निस्सारं ज्ञात्वा अविनश्वरे स्वात्मोत्थे सुखे रतिर्विधातव्या सुज्ञानिन इति भावार्थः॥ ५७ ॥ इंद्रियजयाधिकारः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134