Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
८२
आराधनासारः
जहं जहं विसएसु रई पसमइ पुरिसस्स णाणमासिज्ज । तह तहं मणस्स पसरो मज्जइ आलंबणारहिओ॥६६॥
यथा यथा विषयेषु रतिः प्रशमति पुरुषस्य ज्ञानमाश्रित्य । तथा तथा मनसः प्रसरो भज्यते आलंबनारहितः ॥ ६६ ॥ जह जह यथा यथा विसपसु विषयेषु इंद्रियार्थेषु पुरिसस्स पुरुषस्य जीवस्य रई रतिः रागः पसमइ प्रशमति उपशमति उपशमतां गच्छति । किंकृत्वा । णाणमासिज्ज ज्ञानमाश्रित्य पूर्व तावदस्य जीवस्य रतिरनादिकालसंबंधवशात् परविषयाधारा इदानीं तु कालादिलब्धिं समवाप्य स्वसंवेदनज्ञानेनाकृष्टा सती ज्ञानमाश्रयतीति तात्पर्येण पूर्वार्धगाथार्थः। तह तह तथा तथा मणस्स मनसः चित्तस्य पसरो प्रसरो विस्तारः आलंबनारहिओ आलंबनारहितः सन् रत्याश्रयमुक्तः सन् भज्जइ भज्यते विनश्यति अस्य मनःप्रसरस्य रतिरेवाश्रयः रतिस्तु विषयाश्रयं परित्यज्य ज्ञानाश्रयणी जाता यत्रैव रतिस्तत्रैव मनःप्रसर इति श्रुतिः । अतः मनःप्रसरोपि ज्ञानाश्रयी भवतीत्यायातं मनोप्यात्मानं ज्ञानलीनं करोतीति तात्पर्यार्थः॥६६॥
अमुमेवार्थ पुनरपि दृढीकरोति;विसयालंबणरहिओ णाणसहावेण भाविओ संतो। कीलइ अप्पसहावे तक्काले मोक्खसुक्खे सो ॥ ६७ ॥ विषयालंबनरहितं ज्ञानस्वभावेन भावित सत् ।
क्रीडति आत्मस्वभावे तत्काले मोक्षसौख्ये तत् ॥ ६७ ॥ .. अब प्राकृतलक्षणे पुन्नपुंसकलिंगयोः कुत्रचिद्रूपभेदो नास्ति तथा च द्विवचनबहुवचनभेदो नास्तीत्यादि सर्वत्र यथासंभवं विचारणीयं । विसयालंबणरहिओ विषयालंबनरहितं अनादिकालसंसेव्यमानविषयाधारवर्जित तत् मनः णाणसहावेण ज्ञानस्वभावेन ज्ञानवासनया भाविओ. संतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134