Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
टीकासहितः। एवं चित्तानिरोधकस्य नरकगतिरेव फलं सदृष्टांतं प्रदर्श्य तनिरोधं कुरुध्वमित्युपदिश्य वाधुना मनोवशीकरणमुपदिश्य तत्फलं च निदर्शयति;सिक्खह मणवसियरणं सवसीढूएण जेण मणुआणं । णासंति रायदोसे तेसिं णासे समो परमो ॥ ६४ ॥ उवसमवंतो जीवो मणस्स सक्केइ णिग्गहं काउं । णिग्गहिए मणपसरे अप्पा परमप्पओ हवइ॥६५॥जुअलं। शिक्षध्वं मनोवशीकरणं स्ववशीभूतेन येन मनुजानाम् । नश्येते रागद्वेषौ तयोर्नाशे समः परमः ॥ ६४ ॥ उपशमवान् जीवो मनसः शक्नोति निग्रहं कर्तुम् । निगृहीते मनःप्रसरे आत्मा परमात्मा भवति ॥ ६५ ॥ युगलम् ।
मणवसियरणं मनोवशीकरणं मनो अवशं वशं करणं मनसश्चित्तस्य वशीकरणं आत्मायत्तीकरणं मनोवशीकरणं भो जनाः सिक्खह शिक्षध्वं अभ्यस्यतः जेण येन मनसा सवसीहूएण स्ववशीभूतेन स्वाधीनता गतेन मणुआणं मनुजानां मनुष्याणां रागदोसे रागद्वेषौ इष्टानिष्टयोः प्रीत्यप्रीतिरूपौ णासंति नश्यतः दूरीभवतः तेसिं तयो रागद्वेषयोः णासे नाशे विनाशे परमो परम उत्कृष्टः समः उपशमः वीतरागत्वाधारः भवतीति क्रियाध्थाहारः उवसमवंतो उपशमवान् रागद्वेषोपशमलक्षणवान् जीवो जीवः आत्मा मणस्स मनसश्चित्तस्य णिग्गहं निग्रहं विनाशं काउं कर्तुं सक्केइ शक्नोति समर्थो भवति मनःप्रसरे चित्तविस्तारे णिग्गहिए निग्रहीते साकांक्षचित्ते क्षयावस्थां नीते सति अप्पा आत्मा जीवः घातिकर्मचतुष्टयसद्भावात् परमप्पउ परमात्मा घातिकर्मचतुष्टयाभावप्रादुर्भावके वलज्ञानाद्यनंतगुणव्यक्तिविराजमानो हवइ भवतीति गाथार्थः ॥६४॥६५॥
ननु केन प्रकारेणास्य मनःप्रसरस्य निवारण भवतीति प्रश्न प्रत्युत्तरमाह;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134