Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
टीकासहितः।
परिहरिय रायदोसे परिहृत्य रागद्वेषौ इष्टेषु स्रक्चंदनवनितादिषु प्रीतिः रागः अनिष्टेषु अप्रीतिर्दृषः रागश्च द्वेषश्च रागद्वेषौ परितः सर्वप्रकारेण त्यक्त्वा । न केवलं रागद्वेषौ परिहत्य । सुण्णं काऊण णियमणं सहसा शीघ्रं निजमनः शून्यं च कृत्वा । अत्र मनसः शून्यत्वमेतत् यत् निःशेषविषयविमुखत्वं यच्च चिच्चमत्कारमात्रनिजशुद्धात्मपरिणतत्वं रागद्वेषौ परिहृत्य शून्यं च मनः कृत्वा यावत् क्षपको न तिष्ठति । तावत् किं न स्यादित्याह । ताव ण णिहणेइ कम्माइ तावन्न निहति कर्माणि तावंतं कालं कर्माणि ज्ञानावरणादीनि न निहन्यात् । इति ज्ञात्वा शुद्धात्मस्वरूपं जिज्ञासुना अलोलं मनः कार्यम् । यदुक्तम्
रागद्वेषादिकल्लोलैरलोलं यन्मनोजलम् ।
स पश्यत्यात्मनस्तत्त्वं सतत्त्वं नेतरोजनः ॥ अविक्षिप्तं मनस्तत्त्वं विक्षिप्तं भ्रांतिरात्मनः ।
धारयेत्तदविक्षिप्तं विक्षिप्तं नाश्रयेत्ततः ॥ ततश्च चेतनाचेतनेषु परद्रव्येषु रागद्वेषौ हित्वा शुभाशुभमनोवचनकायव्यापाररूपयोगत्रयपरिहारपरिणताभेदरत्नत्रयलक्षणज्ञानबलेन शून्य विषयविमुखं च मनः कृत्वा यो वीतरागचारित्राविनाभूतशुद्धात्माभिमुखपरिणामस्तिष्ठति स सकलकर्माणि जयतीति भावार्थः ॥ ७१ ॥
यावच्चिदानंदात्मकपरमब्रह्मोपासनवासनाबलेन मनो निश्चलं न विधीयते तावत् कर्मास्रवा वारयितुं न शक्यते इत्याह;तणुवयणरोहणेहिं रुज्झंति ण आसवा सकम्माणं । जाव ण णिप्फंदकओ समणो मुणिणा सणाणेण ॥७२॥
तनुवचनरोधनाभ्यां रुध्यते न आस्रवाः स्वकर्मणाम् ।
यावन्न निष्पंदीकृतं स्वमनो मुनिना स्वज्ञानेन ॥ ७२ ॥ रुज्झंति ण न निरुध्यते न निवार्यते ते आस्रवा सकम्माणं स्वकमणां स्वेन आत्मीयेन जीवेन सहैकीभावं गतानां ज्ञानावरणाद्यष्टविध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134