Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
टीकासहितः।
७७
मनोनरपतिः संभुंक्त अमरासुरखगनरेंद्रसंयुक्तं ।
निमिषेणैकेन जगत्तस्यास्ति न प्रतिभटः कोपि ॥ १९ ॥ मणणरवइ मनोनरपतिः मनो मानसं तदेव नरपतिः राजा कर्ता अमरासुरखगणरिंदसंजुत्तं अमरासुरखगनरेंद्रसंयुक्तं अमरा: कल्पवासिनः असुरा दैत्याः खगा विद्याधरा नरेंद्राश्चक्रवर्त्यादयः। अत्र सर्वत्र द्वंद्वसमासः अमरासुरखगनरेंद्रैः संयुक्तं जयं जगत् त्रैलोक्यं णिमिसेणेकेण निमिषेनैकेन संभुक्ते एकक्षणमात्रेण स्वभोगयोग्यं करोतीत्यर्थः । तस्स तस्य मनसः कोइ कोपि तेषाममरासुरनरेंद्राणां मध्ये एकतमोपि पडिभडो प्रतिभटः प्रतिमल्लो न विद्यते इत्यर्थः । तथा चोक्तं ज्ञानार्णवे शुभचंद्राचार्यैःदिक्चक्र दैत्यधष्ण्यां त्रिदशपतिपुराण्यंबुवाहांतरालं
द्वीपांभोधिप्रकांडं खचरनरसुराहींद्रवासं समग्रम् । एतत्रैलोक्यनीडं पवनचयचितं चापलेन क्षणार्धे
नाश्रांतं चित्तदैत्यो भ्रमति तनुमतां दुर्विचिंत्यप्रभावः ॥ इति बुद्धवा शुद्धबुद्धकस्वभावपरमात्मनो भावनाबलेन मनोराजबलमबलीकृत्य निजात्मनि स्थापनीयमित्युपदेशार्थ गाथा गता ॥ ५९ ॥
इदानी मनोनरपतेमैरणे संभूते उत्तरोत्तरमिंद्रियादीनां मरणमपि जायते ततो मोक्षसुखं यतो जायते तस्मान्मनसो मारणाय प्रयोजयति यथा तथा दर्शयति;मणणरवणो मरणे मरंति सेणाइं इंदियमयाइ। ताणं मरणेण पुणो मरांति णिस्सेसकम्माइ ॥६॥ तेसिं मरणे मुक्खो मुक्खे पावेइ सासयं सुक्खं । इंदियविसयविमुक्कं तम्हा मणमारणं कुणइ ॥६१॥
मनोनरपतेर्मरणे म्रियते सैन्यानि इंद्रियमयानि । तेषां मरणेन पुननियंते निःशेषकर्माणि ॥ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134