Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
आराधनासार
तस्थिवान् । शुकचरेण व्यंतरदेवेन तेन पूर्ववैरमनुस्मृत्य शीतलवारिणा सिक्ता तथा शीतलवातेन कदर्थिता सहजशुद्धं परमात्मानमाराध्य केवलाख्यं च ज्योतिरुत्पाद्य निर्वाणं प्राप्तवान् श्रीदत्तो मुनिः ॥ ५१ ॥
यथा प्रागुक्तैः राजर्षिभिरुपसर्गः सोढस्तथा त्वमपि सहस्वेत्युत्साहयन्नाह;एएहिं अवरेहिं य जहं सहिया थिरमणेहिं उवसग्गा। विसहसु तुमंपि मुणिवर अप्पसहावे मणं काऊ ॥५२॥
एतैरपरैश्च यथा सोढाः स्थिरमनोभिः उपसर्गाः ।
विषहस्व त्वमपि मुनिवर आत्मस्वभावे मनः कृत्वा ॥५२॥ विसहसु विषहस्व मुणिवर मुनिवर क्षपक । कान् । अर्थादुपसगान् । जहं एएहि अवरेहि य यथा एतैः पूर्वोक्तैः सुकुमालादिभिः अनुक्तैः संजयंतादिभिः सहिया सोढाः । के । उपसर्गाः । कीदृशैः । थिरमणेहिं. स्थिरमनोभिः स्थिरचित्तैः । यथा सुकुमालसुकोशलगुरुदत्तपांडवादिभिराराधनास्वधुनीमध्यमध्यासीनैरुपसर्गाः चतुर्विधाः समभावनया सोढास्तथा त्वमपि यद्युत्तमा गतिं जिगमिषसि तर्हि सहस्व । किं कृत्वा । अप्पसहावे. मणं काऊ आत्मस्वभावे परमात्मनि मनश्चित्तं कृत्वा सहस्वेत्यर्थः ॥ ५२।। प्रपंचतः प्रकृष्टोपसर्गान् व्याख्याय संप्रति क्रमायातस्येंद्रियजयस्य प्रपंचयन् गाथापंचकं निरूपयति इति समुदायपातनिका।
तत्रादौ रूपकेण कृत्वा इंद्रियाणां व्याधत्वं समर्थयन् स्मरे शरत्वं विषयेषु वनत्वं जनेषु हरिणत्वं प्रतिपादयति;इंदियवाहेहिं हया सरपीडापीडियंगचलचित्ता। कत्थपिण कुणंति रई विसयवणं जंति जणहरिणा॥५३॥
इंद्रियव्याधैर्हताः शरपीडापीडितांगचलचित्ताः । कुत्रापि न कुवैति रतिं विषयवनं यांति जनहरिणाः॥ ५३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134