Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
आराधनासारः wwwwwwwwww नग्नीभूतः स्थितोसि । किं विधेकविकलस्य नग्नत्वमभिप्रेतार्थसिद्धये भवति । नग्नाः किं वृषभा न भवन्ति यतः सत्पुरुषो बालतनयमकार्यशतमपि कृत्वा प्रतिपालयति । यदुक्तम्
वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः ।
अपकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥ तन्नग्नीभूय किं साधिताअथ सा तद्गुरुमप्येवमुपालम्भतवती भो मुने भवतामुं भार्यापुत्रयोः प्रतिपालकं श्रेष्ठिनं दीक्षयता अपरीक्षितमकारि । यदुक्तं
अपरीक्षितं न कर्तव्यं कर्तव्यं सुपरीक्षितम् ।
पश्चाद्भवति संतापो ब्राह्मणी नकुलं यथा ॥ ततः कोपावेशवशंवदया तया गुरुशिष्यौ 'महे अस्मिन् पुरे च प्रवेशो न कर्तव्य ' इति निषिद्धौ इति जयावतीदुर्वचनकुठारैर्भिद्यमानमपि मुनिमनो न क्षोभमानम् । यदुक्तम् -
लोक एव बहुभावभावितः स्वार्जितेन विविधेन कर्मणा । पश्यतोस्य विकृतीजेडात्मनः क्षोभमेति हृदयं न योगिनः ॥ अथ परमोपशमसरःस्नानशामितकोपतापौ तौ त्वरितं देशांतरमीयतुः । तत्र च सिद्धार्थो मुनिः गुरुपादांते कानिचित् श्रुतपदानि अभ्यासीत् अज्ञानमयं तमोविनाशमनैषीत् । अथ बहुषु वत्सरेषु अतीतेषु सिद्धार्थों मुनिर्गुरुमापृच्छ्य तामयोध्यामयासीत् । पूजापुरस्सरं सर्वो हि पौरो धर्मार्थी तं मुनिराजं प्राणसीत् । सुकोशलोपि मुनिदर्शनसंभवदमंदानंदः स्वजननीमप्राक्षीत् । मातरस्य दर्शनात् मम मनोऽत्यंत प्रसीदति नेत्रे च तृप्यतस्तदयं कः कस्मादुपागतश्च । माता च कालुष्यवांतस्वांता न किंचिद्वदतिस्म । ततो धात्री प्रोवाच । भो तनय इमं मुनिमात्मीयं जनकं जानीहि । त्वन्मुखमवलोक्यैव तपसे जगाम । सुकोशलोपि इदं पितृचरित्रं श्रुत्वा सद्योविषयविरतोऽजनि । यदुक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134