Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 71
________________ आराधनासारः मनुष्यकृतोपसर्गो यः सोढस्तन्नामानि सूचयन्नाह;गुरुदत्तपंडवेहिं य गयवरकुमरेहिं तह य अवरेहिं । माणुसकर उवसग्गो सहिओ हु महाणुभावेहिं ॥ ५० ॥ गुरुदत्तपांडवैः च गजवरकुमारेण तथा चापरैः । मनुष्यकृत उपसर्गः सोढो हि महानुभावैः ॥ १०॥ सहिओ सोढः हु स्फुटं । कः सोढः । उपसर्गः । कीदृशः । माणुसकउ मनुष्यकृतः । कैः सोढः । गुरुदत्तपंडवेहिं गुरुदत्तपांडवैः गुरुदत्ताख्यो भूपालः पांडवाः पांडुनरेंद्रपुत्रा युधिष्ठिरादयः गुरुदत्तश्च पांडवाश्च गुरुदत्तपांडवास्तैर्गुरुदत्तपांडवैः । अत्र गुरुदत्तकथा । हस्तिनागपुरे न्यायोपार्जितवित्तो गुरुदत्तो नाम राजा । एकदा स प्रजायाः पीडामापादयंतं व्याघ्रमनुचरमुखादोषोत् । ततः कोपाविष्टो भूपरिद्रढः ससैन्यो गत्वा द्रोणीमति पर्वते सत्त्वसंतानघातकं तं व्याघ्र रुरोध । व्याघ्रोपि कांदिशीकतया प्रपलाय्य गिरिगुहां प्राविशत् । सकोपो भूपो गुहांतर्दारुभारं क्षेपयित्वा वह्निमदीपयत् । तत्क्षणे प्रदीप्ताशुशुक्षिणिजिह्वाजालेन करालितो व्याघ्रो ममार । मृत्वा च चंद्रपुर्या कपिलो नाम द्विजन्माऽजनि, इतश्च गुरुदत्तः क्षोणीपो वैराग्यकारणं किंचिदवलोक्य पुत्राय राज्यं दत्वा यतिर्बभूव । क्रमेण विहारक्रमं विदधानः चंद्रपुरीमभ्येत्य कपिलब्राह्मणस्य क्षेत्रसविधे कायोत्सर्गेण तस्थौ । कपिलोपि निजपाणिगृहीतां सिद्धान्नमादाय सत्त्वरमागच्छरित्यादिश्य क्षेत्रमीयिवान् । तत् क्षेत्रं कर्षणायोग्यं मत्त्वा क्षेत्रांतरं गतो वाडवः । इतश्च तदीया भार्या संबलं गृहीत्वा क्षेत्रं प्रति गच्छंती अंतराले मुनिमालोक्य पप्रच्छ । मुने क्षेत्रेस्मिन् ब्राह्मणास्ति नास्ति चेति तया पृष्टोपि मुनिने वक्ति केवलं मौनमास्थाय मुनिः स्थितः । ततः सा निवृत्य स्वमंदिरमियाय । बृहद्वेलायां तेन द्विजन्मना क्षेत्रादागत्य भार्या निर्भत्सिता। रंडे मुनिं पृष्ठा किं नाथातासि । तयोक्तं पृष्टोपि न स . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134