Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 17
________________ आराधनासारः कायसंज्ञां लभते । पुण्यपापाभ्यां विना नव पदार्थाः सप्त तत्त्वसंज्ञां लभते । एतेषां सप्रपंचविशेषाः परमागमतो विज्ञेया अत्र तु नोच्यते ग्रंथगौरवमयात् बहुषु ग्रंथेषु प्रोक्तत्वाच्च । अमी यथा जिनेंद्रेण प्रतिपादितास्तथैव सम्यक्त्वलिंगिता भवंति नान्यथेति विश्वासः प्रतीतिः रुचिः श्रद्धानं भण्यते । तच्च तन्निसर्गादधिगमावति वचनात्कारणद्वयमद्भवति । जीवस्य अनादिकालकर्मपटलाष्टकमात्मानं मिथ्यात्वं वापि न परित्यजति । तद्विविधं अगृहीतगृहीतभेदात् । प्रथमं तावत्सकलस्य जीवराशेर्भवति तदुदयेन तत्त्वातत्त्वश्रद्धानं किमपि न भवति । तत्र सम्यग्वि. परीततत्त्वश्रद्धानयोयोरप्यनवकाशत्वात् । द्वितीयं तु विशिष्टपंचेद्रियजीवराशेर्भवति तदुदयेन जीवो विपरीतं तत्त्वं श्रद्धत्ते न सम्यक् । यदा तुलब्धकालादिलब्धिको भवति जीवस्तदा निसर्गाधिगमाख्यकारणद्वयं प्रामोति । निसर्गः स्वभावः आचार्यादीनां धर्मोपदेशविशिष्टोपायः अधिगमः । निसर्गेणापि पूर्वमधिगमेन भूत्वा भाव्यं अन्यस्मिन् जन्मनि भावितयोगत्वात् । ततः अधिगम एव सम्यक्त्वोत्पत्तिनिमित्तं प्रधानं निसर्गे अधिगमे वा सत्यपि जीव औपशमिकं क्षायोपशमिकं क्षायिकं चेति कारणत्रयं समाश्रित्य तत्त्वश्रद्धानं विधत्ते । अथैतेषां औपशमिकादीनां यथानुक्रमेण लक्षणमाह । लक्षणं द्विविधं सामान्यविशेषभेदात् । एकव्याक्तिनिष्ठं सामान्य अनेकव्यक्तिनिष्ठो विशेषः । तत्र तावत्सामान्यलक्षणमुच्यते । आत्मान कर्मणः स्वशक्तेः कारणवशादनुद्भूतिरुपशमः कतकादिद्रव्यसंबंधादंभसि पंकस्यानुभूतिवत् । आत्यंतिकी निवृत्तिः क्षयः तस्मिन्नेवांभसि शुचिभाजनांतरसंक्रांते पंकस्यात्यंताभाववत् । उभयात्मको मिश्र तस्मिन्नेवांभसि कतकादिद्रव्यसंबंधात् पंकस्य क्षीणाक्षीणवृत्तिवत् । उपशमः प्रयोजनमस्येत्यौपशमिक, क्षयः प्रयोजनमस्येति क्षायिकं, क्षयोपशमः प्रयोजनमस्यति क्षायोपशमिकं । मोहनीयकर्मणः अनंतानुबंधिचतुष्टयं मिथ्यात्वत्रयं चेति सप्तानां प्रकृतीनामुपशमादौपशमिकं सम्यक्त्वं भवति । तत्कथं भवतीति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134