Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 26
________________ टीकासहितः। २१ " विशुद्ध स्वस्वभावे यच्छ्रद्धानं शुद्धिबुद्धितः । तन्निश्चयनये सम्यग्दर्शनं मोक्षसाधनं ॥ आत्मानमात्मसंभूतं रागादिमलवर्जितं । यो जानाति भवेत्तस्य ज्ञानं निश्चयहेतुजं ॥ तमेव परमात्मानं पौनःपुन्यादयं यदा । अनुतिष्ठेत्तदा त्वस्य ज्ञानं चारित्रमुत्तमं ॥ परद्रव्येषु सर्वेषु यदिच्छाया निवर्त्तनं । . ततः परममात्मानं तन्निश्चयनयस्थितैः ॥ इति निश्चयाराधनास्वरूपं परिज्ञाय क्षपकेण संसारशरीरभोगेभ्यो विरज्य शुद्धात्मस्वरूपमेवाराधनीयमिति तात्पर्यार्थः ॥ १०॥ ननु भगवन् निश्चयाराधनायात्मात्मस्वरूपे आराधिते आराधनाराध्याराधकफसमिति चत्वारो भेदाः कथं घटत इति पृष्टः स्पष्टमाचष्टे आचार्यः, आराहणमाराहं आराहय तह फलं च जं भणियं । तं सब्वं जाणिज्जो अप्पाणं चेव णिच्छयदो ॥११॥ आराधनमाराध्यं आराधकस्तथा फलं च यद्भणितम् । तत्सर्व जानीहि आत्मानं चैव निश्चयतः ॥ ११ ॥ हे क्षपक जाणिज्जो जानीहि । किं तत् । तं सव्वं तत्सर्वं पूर्वोक्तं निखिलं । कं । अप्पाणं चेव आत्मानमेतत् शुद्धात्मानमव । कस्मात् णिच्छयदो निश्चयतः परमार्थतः। तत् किमित्याह । जं भणियं यद्भणितं यत् उक्तं । किं स्वरूपं । आराहणं आराहं आराहय तह फलं च आराधनं सम्यग्दर्शनादिचतुष्टयोद्योतनोपायरूपं आराध्यं सम्यग्दर्शनादिकं आराधकः पुरुषविशेषः क्षपकः तथा फलं च सकलकर्मप्रक्षयो मोक्षः संवरनिर्जरे च, चकारोऽनुक्तसमुच्चयार्थः । कथमिति चेत् । आराधनं उद्योतनोपायरूपः स एवात्मा जीवः आराध्यं च तदेव परमात्मस्वरूपं आराधकच Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134