Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
टीकासहितः।
ज्ञान एव रागद्वेषाभाव एव खड्गस्तेन । एतेन परीषहान् सर्वान् जित्वा क्षपकः शुद्धात्मानं ध्यायतीति रहस्यं ॥ ४० ॥
संन्याससंग्रामांगणे परीषहसुभटैर्निराकृताः केचिद्धीनसत्त्वाः शरीरसुखं शरणं प्रविशंतीत्यादिशति;परिसहसुहडेहिं जिया केई सण्णासाहवे भग्गा । सरणं पइसंति पुणो सरीरपडियारसुक्खस्स ॥ ४१ ॥
परीषहसुभटर्निता केचित् संन्यासाहवाद्भग्नाः ।
शरणं प्रविशति पुनः शरीरप्रतीकारसुखस्य ॥ ११ ॥ परिसहसुहडोहं जिया परीषहसुभटैर्जिताः विनिर्जिताः केचित् चरित्रमोहोदयेन प्रच्छादितवृत्ता रुद्रादयो मुनयः सण्णासाहवे संन्यासाहवात् सर्वसंगपरित्यागलक्षणः संन्यासः चरित्रानुष्ठानं स एवाहवः संग्रामः ऋषभादिभिर्वीरपुरुषैः समाश्रितत्वात् तत्सहदीक्षितचतुःसहस्रनरेंद्रादिकातरपुरुषैः परित्यजनत्वात् सामान्यैः श्रवणमात्रत्रासोत्पादकत्वात् नानानशनरसपरित्यागादिवतानुष्ठानकांडायस्त्रैः कायकदर्थनत्वात्, तस्मात्संन्याससंप्रामात् भग्गा भग्नाः पलायिताः परीषहान् सोढुमशक्ताश्चारित्ररणभूमिं परित्यज्य गता इत्यर्थः । ततो नष्टास्ते क गच्छंतीति पृष्टे प्रत्युत्तरमाह । सरीरपडियारसुक्खस्स शरीरप्रतीकारसुखस्य शरीरस्य निजदेहस्य प्रतीकारः प्रावरणभोजनादिविषयस्तदेव सुखं तस्य सरणं शरणमाश्रयं पुनः पविसंति प्रविशंति गच्छंति पूर्व तावत्किमपि वैराग्यमांत्रं प्राप्य समस्तदेहद्रियविषयजन्यसुखपुत्रमित्रकलत्रं परित्यज्य ख्यातिपूजालाभापहलौकिकस्वर्गापवर्गरूपपारलौकिककमनीयसुखसंपत्तिदायिनी जिनराजदीक्षा प्राप्ता ये तत्र दुर्धरतपोनुष्ठानं विलोकयंतो भीता वयमीदृशमाचरितुमक्षमाः पुनस्ते देवशास्त्रगुरुचतुर्विधसंघविद्यमानात्तप्रतिज्ञां परिहाय चतुर्गातकसंसारकूपपतनभीतमगणयंतः पुनरपि मनोवाक्कायकदर्थनसमर्थनानाविध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134