Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 35
________________ आराधनासारः मं पुणु पुण्णइ भल्लाइ णाणिय ताइ भणंति । जीवहं रज्जइ देवि लहु दुक्खइ जइ पाडंति ।. . परमात्मप्रकाशे इत्युक्तत्वात् । उक्तं च तेनापि पुण्येन कृतं कृतं यज् जंतोर्भवेत् संमृतिवृद्धिहेतुः । - तच्चार्वपीच्छेन्ननु हेम को वा क्षिप्तं श्रुती त्रोटयते यदाशु ॥ किं कृत्वा विराधको भवति। मुत्तूणं मुक्त्वा परित्यज्य। कं। विसुद्धप्पा विशुद्धात्मानं विशुद्धो रागादिरहित आत्मा तं । कथंभूतं ।रयणत्तयमइओ रत्नत्रयमय विषयभेदेन सम्यग्दर्शनादिरत्नत्रितयेन निवृतं । कुतः । अप्पणो आत्मनः निजात्मस्वरूपापादानभूतत्वात् । एवं ज्ञात्वा समस्तपरद्रव्यं विमुच्य भो भव्या निजदेहे निवसंतं परमात्मानमाराधयंतु इति तात्पर्यार्थः ॥ २० ॥ ___ नन भगवन् परमात्मानं मुक्वा परद्रव्यं चिंतयति यः स मया विराधको ज्ञातः यस्तु आत्मानं परमपि न बुध्यते तस्याराधना घटते न वेति पृष्टे आचार्यः प्राह;जो णवि बुज्झइ अप्पा णेय परं णिच्छयं समासिज्ज । तस्स ण बोही भणिया सुसमाही राहणा णेय ॥२१॥ यः नैव बुध्यते आत्मानं नैव परं निश्चयं समासृत्य । तस्य न बोधिः भाणिता सुसमाधिराराधना नैव ॥ २१ ॥ णवि बुज्झइ नैव बुध्यते न जानाति । कोसौ । जो यः कश्चिदपि पुरुषविशेषः । कं । अप्पा आत्मानं सम्यग्दर्शनज्ञानचारित्राणि अततीति आत्मा तं । न केवलं आत्मानं बुध्यते । णेय परं परं नैव आत्मनो विलक्षणं देहादिपरद्रव्यं नैव । किं कृत्वा । समासिज्ज समासृत्य अवलंब्य। कं । णिच्छयं निश्चयं परमार्थ तस्स ण भणिया तस्य न भाणता . आत्मपरभेदपरिज्ञानशून्यस्य न प्रतिपादिता । कासौ । बोही बोधिः । बोधेः किं लक्षणं । सम्यग्दर्शनज्ञानचारित्राणामप्राप्तिप्रापणं बोधिः। न केवलं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134