Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 37
________________ ३२ आराधनासारः प्रथमायां न दोषः । बाह्याभ्यंतरपरिग्रहलक्षणः संगस्तस्य त्यागः परित्यजनं तं । न केवलं संगत्यागं । कृत्वा कसायसल्लेहणा य कषायसल्लेखनां च कषायाः क्रोधमानमायालोभलक्षणास्तेषां सल्लेखना संन्यासः सर्वथा परिहारः तां कषायसल्लेखनां । किंविशिष्टां। कायव्वा कर्तव्यां मुमुक्षभिरवश्यमेव करणीयां तदकरणे साध्यसिद्धरभावात् । न केवलं कर्तव्यां कषाय-- सल्लेखनां च । कृत्वा । विजयमभिभवं । कासां । परीषहचमूनां बुभुक्षादिद्वाविंशतिपरीषहसेनानां । न केवलं परीषहचमूनां विजयं । कृत्वा सहणं सहनं मर्षणं क्षमणमिति यावत् । केषां । उवसग्गाणं उपसर्गाणां सचेतनाचेतनेभ्यः समुत्पन्नोपप्लवानां । कथं । तहा तथा । न केवलं उपसर्गाणां सहनं जओ जयं विजयलक्षणं । केषां । इंदियमल्लाण इंद्रियमल्लानां स्पर्शनादिलक्षणानि पंचेंद्रियाणि तान्येव महासुभटास्तेषां । न केवलं इंद्रियमल्लानां जयं । संजमणं संयमनं संकोचनं । कस्य । मणगयपसरस्स मनोगजप्रसरस्य मनश्चित्तं तदेव गजो हस्ती तस्य प्रसरः स्वेच्छापरिभ्रमणं तस्य प्रथमम) भूत्वा संगत्यागं करोति तदनु कषायसल्लेखनां करोति पुनः परीषहसेनां जयति तथा उपसर्गान् सहते इंद्रियमल्लानां च जयं करोति मनोगजप्रसरं च निरोधयति । एवं सामग्री संमील्य क्षपकः कर्माणि क्षपयतु। इति सप्तमस्थलसमुदायसूचनायां गाथाद्वयं गतं ॥२२॥२३॥ इदानीमादावेव निर्दिष्टस्याहस्य लक्षणमाह अस्यैव ज्येष्ठत्वात् ;छंडियगिहवावारो विमुक्कपुत्ताइसयणसंबंधो। जीवियधणासमुक्को आरिहो सो होइ सण्णासे ॥२४॥ त्यक्तगृहव्यापारः विमुक्तपुत्रादिस्वजनसंबंधः । जीवितधनाशामुक्तः अर्हः स भवति सन्न्यासे ॥ २४ ॥ होइ भवति । कोसौ। अरिहो अर्हः योग्यः । क्व । सण्णासे संन्यासे अयोग्यहानयोग्योपादानलक्षणसंन्यासः तस्मिन् । स किंविशिष्टो भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134