Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 46
________________ टीकासहितः। इति श्लोकार्थाभिप्रायप्रवर्तनतया केवलं निजात्मद्रव्योपादानत्वासर्वसंगसंन्यासी। केन । परमत्थे परमार्थेन निश्चयेन । किं कृते सति । चाए त्यागे कृते सति । कयोः । तेसिं तयोः । तयोरिति तौ द्वौ प्रत्येक कथयति । भवति । कोसौ । बाहिरगंथो बाह्यग्रंथः बाह्यपरिग्रहः । कः सः। देहः शरीरं भवति च । कोसौ । अण्णो अन्यः बाह्यादन्यत्वादन्यः अभ्यंतरग्रंथ इत्यर्थः । स कः । विसयअहिलासो विषयाभिलाषः विषयवांछा । केषां । अक्खाण अक्षाणां इंद्रियाणां परमार्थेन देह एव बाह्यग्रंथः सर्वैः प्रत्यक्षत्वात् परमार्थेनेंद्रियाणां विषयाभिलाष अभ्यंतरग्रंथः अकायवाग्व्यापारे परेंद्रियैरप्रत्यक्षत्वात् इत्युक्तलक्षणयोबाह्याभ्यंतरग्रंथयोस्त्यागे कृते सति परमार्थनिर्ग्रथो भवन स्वस्वरूपाराधको भवतीत्याभिप्रायः॥ ३३ ॥ एवं गाथाचतुष्टयेन संगत्यागो व्याख्यातः,अधुना क्रमायातायाः कषायसल्लेखनाया व्याख्यानं गाथाषट्रेन कृत्वा आचार्यों निरूपयतीति समुदायपातनिका। ननु कषायसल्लेखनाकारी क्षपको यः स कथंभूतो भवतीति वदंतं प्रत्याह;इंदियमयं सरीरं णियणियविसएसु तेसु गमणिच्छा । ताणुवरि हयमोहो मंदकसाई हवइ खवओ ॥ ३४ ॥ इंद्रियमयं शरीरं निजनिजविषयेषु तेषु गमनेच्छम् । तेषामुपरि हतमोहो मंदकषायो भवति क्षपकः ॥ ३४ ॥ हवइ भवति । कोसौ । खवओ क्षपकः । किं भवति । मंदकसाई मंदकषायी । किं विशिष्टः । क्षपकः । हतमोहो हतमोहः हतो निराकृतो मोहो मूछी ममत्वपरिणामो येन स हतमोहः । क । उवरि उपरि । केषां तेषां स्वस्वविषयाणां । तेषामुपरीति किं तदेवस्पष्टमाह । भवति तत् शरीरं। किं भवति । गमणिच्छा गमनेच्छं गमने इच्छा यस्य तत् गमनेच्छं जिगमिषु । क । णियणियविसएसु निजनिजविषयेषु स्वकीयस्वकीयस्पर्शरसगंधधर्णशब्दलक्षणेषु । विषयेषु इत्युक्ते शरीरादावतिव्याप्तिः तन्नि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134