Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 51
________________ ४६ आराधनासारः सीयाई शीतादयः शीत आदिर्येषां क्षुत्पिपासादीनां ते शीतादयः बावीसं द्वाविंशतिः द्वाविंशतिसंख्योपेताः परिसहसुहडा परीषहसुभटाः परीषहाः क्षुत्पिपासादिलक्षणाः त एव सुभटा रणरंगकुशलपुरुषविशेषाः शरीरपराभवकारणसामर्थ्यात् । ते किं कर्तव्या । हवंति भवंति णायव्वा ज्ञातव्याः स्वकीयावगमगोचरीकर्तव्या । कथमितिचेत् । भिक्षोः शुद्धाहारान्वेषिणः तदलामे ईषल्लाभे च दुस्तरेयं वेदना महांश्च कालो दीर्घाहेति विषादमकुर्वतोऽकाले देशे च भिक्षामगृह्णतः आवश्यकहानि मनागप्यनिच्छतः स्वाध्यायध्यानरतस्योदीर्णक्षद्वेदनस्यापि लाभादलाममधिकं मन्यमानस्य क्षुद्वाधाप्रत्ययचिंतनं क्षुद्विजयः॥१॥ अतीवोत्पन्नपिपासां प्रति प्रतीकारमकुर्वतो भिक्षाकालेऽपींगिताकारादिभिरपि योग्यमपि पानमप्रार्थयतो धैर्य प्रज्ञाबलेन पिपासासहनं ॥ २ ॥ शैत्यहेतुसन्निधाने तत्प्रतीकारानभिलाघस्य देहे निर्ममस्य पूर्वानुभूतोष्णमस्मरतो विषादरहितस्य संयमपालनार्थ शीतक्षमा ॥ ३॥ दाहप्रतीकाराकांक्षारहितस्य शीतद्रव्यप्रार्थनानुस्मरणोपेतस्य चारित्ररक्षणमुष्णसहनं ॥ ४ ॥ दंशमशकादिभिर्भक्षमाणस्याचलितचेतसः कर्मविपाकं स्मरतो निवृत्तप्रतीकारस्य शस्त्रघातादिपरान्मुखस्य दंशादिवाधासहनं ॥ ५॥ दंशग्रहणेन सिद्धे मशकग्रहणं सर्वोपघातोपलक्षणार्थ । स्त्रीरूपाणि नित्याशुचिबीभत्सकुणपभावेन पश्यतो यथाजातरूपमसंस्कृतविकारमभ्युपगतस्य वैराग्यमापन्नस्य नग्नमुत्तमं ॥ ६ ॥ कुतश्चिदुत्पन्नामरतिं निवार्य धृतिबलात्संयमरतिभावनस्य विषयसुखरतिं विषसमानं चिंतयतो दृष्टश्रुतानुभूतरतिस्मरणकथाश्रवणरहितस्यारतिपरीषहजयस्तेन चक्षुरादीनां सर्वेषामरतिहेतुत्वात् पृथगरतिग्रहणमयुक्तं कदाचित्क्षुदाद्यभावेपि कर्मोदयात्संयमे अरतिरुपजायते॥७॥ स्त्रीदर्शनस्पर्शनालापाभिलाषादिनिरुत्सुकस्य तदक्षिवक्रभूविकारशृंगाराकाररूपगतिहासलीलाविजृभितपीन्तेनतस्तनजननोरुमूलकक्षानाभिनिरीक्षणादिभिरावकृतचेतसस्त्यक्तवंशगीतादिश्रुतेः स्त्रीपरीषहजयः ॥८॥ देवादिवंदनाद्यर्थ गुरुणानुज्ञातगमनस्य संयमा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134