Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 39
________________ आराधनासारः जराव्याघ्री न चंपते यावन्न विकलानि भवंति अक्षाणि । बुद्धिर्यावन्न नश्यति आयुर्जलं यावन्न परिगलति ॥ २५ ॥ आहारासननिद्राविजयो यावदस्ति आत्मनो नूनम् । आत्मानमात्मना च तरति च निर्यापको यावत् ॥ २६ ॥ यावत् न शिथिलायंते अंगोपांगानि संधिबंधाश्च । यावन्न देहः कंपते मृत्योर्भयेन भीत इव ॥ २७ ॥ यावदुद्यमो न विगलति संयमतपोज्ञानध्यानयोगेषु । तावदहः स पुरुषः उत्तमस्थानस्य संभवति ॥ २८ ॥ कलापकं। संहवइ संभवति संपद्यते । कोसौ । स पूर्वोक्तलक्षणः पुरिसो पुरुषः । कथंभूतः । अरिहो अर्हः । कस्य । उत्तमस्थानस्य बाह्याभ्यंतरसंगसंन्यासलक्षणविशेषस्य । कथं । ता तावत् । तावदिति कियत्कालं । जाव यावत् यावत्काले ण चंपेइ न चंपते नाक्रमति । कासौ । जरवग्घिणी यौवनद्विपदर्पदलनत्वात् जराव्याघ्री । न केवलं जराव्याघी यावन्नाकामति । जाम ण हुंति यावत् च न भवंति कानि । अक्खाइं अक्षाणि स्पर्शरसगंधवर्णशब्दग्रहणदक्षाणि इंद्रियाणि । किंविशिष्टानि यावच्च न भवंति । वियलाई विकलानि स्वकीयस्वकीयविषयसौष्ठवास्पष्टकारीणि । न केवलं विकलानींद्रियाणि यावन्न भवति जाम यावच्च ण णासइ न नश्यति । कासौ । बुद्धिः । नश्यतीति कोर्थः । अवस्थाविशेषेण सा इंद्रियमनोविकलतया हेयोपादेयपदार्थपरिज्ञानशून्यत्वेनात्मीयं स्वरूपं मुक्त्वा विपर्यस्तरूपमादाय अदृश्या भवति । न केवलं यावद्भुद्धिर्न नश्यति । जाम यावच्च ण परिगलइ न परिगलति । किं तत् । आउजलं आयुर्जलं निजोपार्जितकर्मबंधसामर्थ्येन संवत्सरायनर्तुमासपक्षदिवसघटिकादिविशेषैर्यावत्परिमाणं भवस्थित्या एकस्मिन् देहे प्राण धारण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134