Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 25
________________ आराधनासारः कान् । इंदियविलए इंद्रियविषयान पंचेंद्रियाणां विषया गोचराः सप्तविंशतिसंख्याताः । तत्र स्पर्शनेंद्रियस्य अष्टौ विषया भवंति । ते के। गुरुलघुस्निग्धरूक्षशीतोष्णमृदुकर्कशलक्षणाः। रसनायाः कटुकतीक्ष्णमधुराम्लक्षाराः पंच । घ्राणस्य सुगंधदुर्गधौ । चक्षुषोः श्वेतपीतरक्तनीलकृष्णाः पंच । श्रोत्रस्य निषादर्षभगांधारषड्जमध्यमधैवतपंचमलक्षणाः सप्त स्वराः इति सर्वे मिलित्वा सप्तविंशतिविषया भवंति तानिद्रियविषयान्निध्य संकोच्य । एतेन तपोप्यात्मैवेत्युक्तं स्यात् ॥ ९ ॥ इदमेव दर्शयति;तम्हा दंसण णाणं चारित्तं तह तवो य सो अप्पा । चइऊण रायदोसे आराहउ सुद्धमप्पाणं ॥१०॥ तस्मादर्शनं ज्ञानं चारित्रं तथा तपश्च स आत्मा। त्यक्त्वा रागद्वेषौ आराधयतु शुद्धमात्मानम् ॥ १० ॥ __ भवतीत्यध्याहार्य व्याख्यायते । भवति । कोसौ । सो अप्पा सः पूर्वोक्तः विश्वविख्यातो वा आत्मा। किं भवतीत्याह । दसण णाणं चरित्तं तह तवो य दंसणेति प्राकृतत्वादनुस्वारलोपः । दर्शनं ज्ञानं चारित्रं तथा तपश्च तस्मादर्शनशानचारित्रतपोमयकारणात् क्षपकःआराहउ आराधयतु।कं । अप्पाणं आत्मानं । कथंभूतं । शुद्धं रागादिमलमुक्तं । किं कृत्वा । चइऊण त्यक्त्वा परित्यज्य । को। रायदोसे रागद्वेषौ रागश्च द्वेषश्च रागद्वेषौ तौ रागद्वेषौ "तवि तं कुणइ अमित्तो सुटुवि सुविराहिओ समत्थोवि । जं दोयं आणिगाहिय करंति रागो य दोसो य" ॥ स आत्मा दर्शनज्ञानचारित्रतपोमयः कथमिति चेदुच्यते । यदायमात्मा तं परमात्मानं श्रद्दधाति तदा दर्शनं यदा जानाति तदा ज्ञानं यदानुचरति तदा चारित्रं यदा परद्रव्याभिलाषं परिहरति तदा तपः ॥ यदुक्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134