Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 21
________________ आराधनासारः ज्ञानाराधना व्याख्याय चारित्राराधनां प्रतिपादयति;तेरहविहस्स चरणं चारित्तस्सेह भावसुद्धीए । दुविहअसंजमचाओ चारित्ताराहणा एसा ॥६॥ त्रयोदशविधस्य चरणं चारित्रस्येह भावशुद्धया । द्विविधासंयमत्यागश्चारित्राराधना एषा ॥ ६॥ अत्र भवतीति क्रिया अध्याहार्या । भवति । कासौ । चारित्ताराहणा चारित्राराधना । का । एसा एषा । एषेति का । चरणं चरण अनुष्ठानं । कस्य। चरित्तस्स चारित्रस्य । कतिविधस्य ।तेरसविहस्स त्रयोदशविधस्य त्रिभिराधिका दश तस्य पंचमहाबतपंचसमितित्रिगुप्तिलक्षणस्य । उक्तं च " महाव्रतानि पंचैव पंचैव समितीस्तथा । गुप्तीस्तिस्रश्च चारित्रे त्रयोदशविधे विदुः ॥" क । इह इहाराधनायां । कया । भावसुद्धीए भावशुद्ध्या भावश्चित्तानुरागस्तस्य शुद्ध्या नैर्मल्येन तामंतरेण चारित्रं गगनारविंदमकरंदवत्प्रतिभासते । यदुक्तम्- . " मावशुद्धिमबिभ्राणाश्चारित्रं कलयंति ये। त्यक्त्वा नावं भुजाभ्यां ते तितीर्षति महार्णवम् ॥" इति । अस्य त्रयोदशविधस्य चारित्रस्य यथावदनुष्ठानं कदा करिध्यामीति चित्तोल्लासेन शीतवातादिजनितशरीरखेदे सति मनसः संक्लेशरहितत्वेनेत्यर्थः । न केवलं चारित्रस्य चरणं चारित्राराधना भवति अन्यदपीत्याह । दुविहअसंजमचाओ द्विविधासंयमत्यागः । दो भेदौ प्रकारौ यस्यासौ द्विविधः द्विविधश्चासावसंयमश्च द्विविधासंयम द्विविधासंयमस्य त्यागः द्विविधासंयमत्यागः। द्विविधासंयमस्य किं लक्षणं । एकस्तावदिद्रियासंयमः अन्यः प्राणासंयमः । द्वयोर्लक्षणं निरूप्यते। यः स्पर्शनरसनघ्राणचक्षुःश्रोत्रलक्षणानां मनसश्च स्पर्शरसगंधवर्णशब्दलक्षणेषु स्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134