Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
टीकासहितः ।
कीयविषयेषु स्वेच्छाप्रचारः स इंद्रियासंयमः कथ्यते । यच्च पृथिव्यप्तेजो
वायुवनस्पतिलक्षणपंचस्थावराणां द्वींद्रियत्रींद्रियचतुरिंद्रयपंचेंद्रियलक्षणत्रसानां च प्रमादचारित्रत्वाज्जीवितव्यपरोपणं स प्राणासंयमः । यदुक्तं
" मनसचेंद्रियाणां च यत्स्वस्वार्थे प्रवर्तनम् । यदृच्छयेव तत्तज्ज्ञा इंद्रियासंयमं विदुः " ॥ " स्थावराणां त्रसानां च जीवानां हि प्रमादतः । जीवितव्यपरोपो यः स प्राणासंयमः
," ॥
स्मृतः
तस्य द्विविधासंयमस्य त्यागः परिहार इतियोजनिकाद्वारः । त्रयोदशविधस्य चारित्रस्य इह भावशुद्धयाचरणम् द्विविधासंयमत्याग, एषा चारित्राराधना भवतीति संक्षेपान्वयद्वारः । एवमसंयमं परिहृत्य पंचेंद्रियनिरोधसकलप्राणिदयालक्षणे संयमे स्थित्वा त्रयोदशविधं चारित्रमाराधनीयमिति भावार्थः ॥ द्वेधासंयमवर्जितं गुरुपदद्वंद्वाब्जसंसेवना
66
दाप्तं यश्चिनुते त्रयोदशविधं चारित्रमत्यूर्जितम् । भक्त्या सप्रसभं कुकर्मनिचयं भक्त्वा च सम्यक् परब्रह्माराधनमद्भुतोदितचिदानंदं पदं विंदते " ॥ ६ ॥
१७
चारित्राराधना व्याख्याय तप आराधनां प्रतिपादयति ;बारहविहतवयरणे कीरइ जो उज्जमो ससत्तीए । सा भणिया जिणसुत्ते तवम्मि आराहणा णूणं ॥ ७ ॥ द्वादशविधतपश्चरणे क्रियते य उद्यमः स्वशक्त्या ।
सा भणिता जिनसूत्रे तपसि आराधना नूनम् ॥ ७ ॥
भणिया भणिता प्रतिपादिता । कासौ । आराहणा आराधना । क । तवमि तपसि । कस्मिन् भणिता । जिणसुत्ते जिनसूत्रे सर्वज्ञागमे । कथं । पूर्ण नूनं निश्चितं । का । सा आराधना । सा इति का। कीरह क्रियते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134