Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
टीकासहितः ।
१३
चेत् । अनादिमिथ्यादृष्टेर्भव्यस्य कर्मोदयापादितकालुष्ये सति । कुतस्तदुपशमः । काललब्ध्यादिनिमित्तवान् । तत्र काललब्धिस्तावत् कर्माविष्ट आत्मभव्यः काले अर्धपुद्गलपरिवर्तना ख्येऽवशिष्टे प्रथमसम्यक्त्वग्रहणस्य योग्यो भवति नाधिके इति । इयमेका काललब्धिः । अपरा काललब्धिः कर्मस्थितिक उत्कृष्टस्थितिकेषु कर्मसु जघन्यस्थितिकेषु प्रथमसम्यक्त्वलाभो न भवति । क्व तर्हि भवति । अंतः कोटाकोटीसागरोपमस्थितिकेषु कर्मसु बंधमापयमानेषु विशुद्धपरिणामवशात् सत्कर्मसु च ततः संख्येयसागरोपमसहस्रोनायामतः कोटीकोटी सागरोपमस्थितौ स्थापितेषु प्रथमसम्यक्त्वयोग्यो भवति । अपरा काललब्धिर्भवापेक्षया, भव्यः पंचेंद्रियः संज्ञी पर्याप्तः सर्वविशुद्धः प्रथमसम्यक्त्वमुत्पादयति | आदिशब्देन जातिस्मरणादि परिगृह्यते, इत्यौपशमिकसम्यक्त्वलक्षणं पूर्णं । अनंतानुबंधिचतुष्कस्य मिथ्यात्वसम्यक्त्वमिथ्यात्वयोश्वोदयक्षयात्तेषामेव सदवस्थारूपोपशमाञ्च सम्यक्त्वस्यैकदेशघातिन उदयात् क्षायोपशमिकं चेति सम्यक्त्वं । तासां पूर्वोक्तानां सप्तानां प्रकृतीनामत्यंतक्षयात् क्षायिकं सम्यक्त्वं । सम्यक्त्वलक्षणं व्याकृत्य कस्यां
तो कति सम्यक्त्वानि भवंति इति सूच्यते । तत्र नरकगतौ सर्वासु पृथिवीषु नारकाणां पर्याप्तकानां क्षायिकं क्षायोपशमिकं चेति सम्यक्त्वद्वयं भवति । प्रथमायां पुनः पर्याप्ता पर्याप्तकानां क्षायिकं क्षायोपशमिकं चेति द्वयं भवतिः तिर्यग्गतौ तिरश्वां पर्याप्तकानामौपशमिकमस्ति तेषां पर्याप्तापर्याप्तकानां तु क्षायिकं क्षायोपशमिकं चेति द्वितयमस्ति तिरश्चीनां क्षायिकं नास्ति औपशमिकं क्षायोपशमिकं च पर्याप्तकानामेव नापर्याप्तकानां । एवं मनुष्यगतौ मनुष्याणां पर्याप्तापर्याप्तकानां क्षायिकं क्षायोपशमिकं चास्ति औपशमिकं पर्याप्तकानामेव नापर्याप्तकानां, मानुषीणां तु त्रितयमप्यस्ति पर्याप्तकानामेव नापर्याप्तकानां क्षायिकं पुनर्भाववेदेनैव । देवगतौ देवानां पर्याप्तापर्याप्तकानां त्रितयमप्यस्ति औपशमिकमपर्याप्तकानां । कथमितिचेत् । चारित्रमोहोपशमेन सहभूतान् प्रति भवनवासिव्यंतरज्योतिष्काणां देवानां देवीनां च
Jain Education International
1
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134