Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 17
________________ अनुसन्धान ५२ कषितनिखिलदोषमित्यर्थः । समस्ताश्च ते दोषाश्च स(मस्तदो)षाः । अस्ताः समस्ता(स्त)दोषा येन तत् अ(स्तसमस्त)दोषम् । दृष्टान्तमाह- सहस्त्रकिरणः दूरे अस्तु । सहस्त्रं किरण(णा)यस्य सः स(हस्रकिर)णः । प्रभैव पद्माकरेषु जलजानि विकासभाञ्जि कुरुते इत्यन्वयः । जले जायन्ते इति जलजानि । विकाशं(सं) भजन्ते इति विकासभाञ्जि ॥९॥ नात्यद्भुतं भुवनभूषण ! भूतनाथ ! भूतैर्गुणैर्भुवि भवन्तमभिष्टवन्तम् । तुल्या भवन्ति भवतो ननु तेन किंवा, भूत्याऽऽश्रितं य इह नात्मसमं करोति ॥१०॥ नात्य० ॥ हे भुवनभूषण !! भुवनस्य भूषणं भु(वनभू)षणं तस्य सं० । हे भूतनाथ !! भूतानां नाथो भूतनाथस्तस्य सं० । हे प्रभो ! भूतैः गुणैः भवन्तं अभिष्टवन्तः भवतस्तुल्या भवन्ति, एतन्न अत्यद्भुतम् । व्यतिरेकमाहननु निश्चितं वा अथवा तेन स्वामिना किं स्यात् । यः इह जगति आश्रितं आत्मसमं न करोति । आत्मनः समः आत्मसमस्तं । कया ? भूत्या-ऋद्ध्या ॥१०॥ दृष्ट्वा भवन्तमनिमेषविलोकनीयं नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः क्षारं जलं जलनिधेरसितुं क इच्छेत् ॥११॥ दृष्ट्वा भ० ॥ हे प्रभो ! जनस्य चक्षुः अन्यत्र तोषं न उपयाति । किं कृत्वा ?, दृष्ट्वा अवलोस्य । कं कर्मतापन्नं ?, भवन्तं त्वामित्यर्थः । भवन्तं कीदृशं ?, अनिमेषविलोकनीयं । निर्निमेषेण विलोक्यते-दृश्यते इति अनिमेषविलोकनीयस्तं अ(निमेषविलोक)नीयम् । दृष्टान्तमाह-दुग्धसिन्धोः पयः पीत्वा जलनिधेः क्षारं जलं असितुं क इच्छेत् ? इत्यन्वयः । अपि तु न कोऽपि । दुग्धसिन्धोः पयः कथम्भूतं ?, शशिकरद्युति । शशोऽस्यास्तीति शशी, शशिनः कराः शशिकराः, शशिकर(रा) इव द्युतिर्यस्य तत् शशिकरद्युति ॥११॥

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146