Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३२
वृत्ते । सुबुद्धिमन्त्रीशस्य कथा ज्ञेया ॥१२॥
अथ मुखवर्णनमाह
वक्त्रं क्व ते सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्त्रितयोपमानम् ।
बिम्बं कलङ्कमलिनं क्व निशाकरस्य
यद् वासरे भवति पाण्डुपलाशकल्पम् ॥१३॥
वक्त्रं॰ । अत्र क्वशब्दौ महदन्तरं सूचयतः । हे सौम्यवदन ! क्व ते तव वक्त्रं वर्तते ? क्व निशाकरस्य चन्द्रस्य बिम्बं मण्डलं विद्यते । किंभूतं वक्त्रम् ? सुरनरोरु(र)गाणां नेत्राणि हर्तुं शीलमस्येति विग्रहः । उरगा भवनवासिनः । पुनः किंभूतम् ? निःशेषाणि कमलदर्पणचन्द्रादीनि सर्वाणि ज (नि) र्जितानि जगत्त्रयस्योपमानानि येन तत् । चन्द्रबिम्बं [ किं ] भूतम् ? कलङ्कमलिनम् । यच्च चन्द्रबिम्बं वासरे दिने पाण्डुपलाशकल्पं जीर्णपक्वपाण्डुरपर्णसवर्णं भवति । मुखस्य तेनोपमा कथं घटत इति वृत्तार्थः । विद्या रोगापहारिणी समस्तवृत्तेऽस्मिन् ॥१३॥
अथ गुणव्याप्तिमाह–
सम्पूर्णमण्डलशशाङ्ककलाकलाप
अनुसन्धान ५२
शुभ्रा गुणास्त्रिभुवनं तव लड्ङ्घयन्ति ।
ये संश्रितास्त्रिजगदीश्वर ! नाथमेकं
कस्तान् निवारयति सञ्चरतो यथेष्टम् ? ॥१४॥
सम्पू० । हे त्रिजगदीश्वर ! त्रिजगन्नाथ ! तव गुणास्त्रिभुवनं लङ्घयन्ति अतिक्रामन्ति । किंभूताः ? सम्पूर्णमण्डल [ : ] शशाङ्कः चन्द्र [स्त ] स्य कलाकलापः करनिकरस्तद्वत् शुभ्रा धवलाः । ये गुणा एकमद्वितीयं नाथं संश्रिताः । कः पुरुषो यथेष्टं स्वेच्छया सञ्चरन्तः परिभ्रमन्त: (सञ्चरत: परिभ्रमतः) तान् गुणान् निवारयति निषेधयति ? अपि तु न कश्चित् । अस्मिन् वृत्ते द्वे विद्ये विषापहारिणी विद्या सर्वसमा (मी) हितदायिके वडासुश्रावकाकथास्ति सत्यकश्रेष्ठिनः कन्या डाहीकथा चाऽस्ति ||१४||

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146