Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान ५२
तदपि किंभूतम् ? स्पष्टा[:] प्रकटा उल्लसन्त उद्गच्छन्तः यस्य [यस्माद् वा] तत् अस्ततमोवितानं क्षिप्तान्धकारप्रकार(-प्रकरम्)। सूरमण्डलस्वरूपं जिनरूपं मेघतुल्यो नीलदलोऽशोक इति युक्तं साम्यम् ॥२८॥ सिंहासने मणिमयूखशिखाविचित्रे
विभ्राजते तव वपुः कनकावदातम् । बिम्बं वियद्विलसदंशुलतावितानं
___तुङ्गोदयाद्रिशिरसीव सहस्ररश्मेः ॥२९॥
सिंहा० । हे तीर्थपते ! मणिमयूखशिखाविचित्रे रत्नकान्तिचूलाचारुणि हैमे सिंहासने कनकावदातं हेमगौरं तव वपुर्देहं विभ्राजते भाति । किमिव ? सहस्ररश्मेबिम्बमिव । यथा सूरमण्डलं तुङ्गोदयादिशिरसि उन्नतपूर्वाचलशृङ्गे वर्तमानं भाति । किंभूतम् ? वियति आकाशे विलसन्तो द्योतमाना येऽशवः कराः, तेषां लतावितानं [मालाविस्तारो] यस्य [यस्माद् वा], तद् । अत्रांऽशुवृन्दसमा मणिमयूखमाला, पूर्वादिशिखरसमानं सिंहासनम्, रविबिम्बोपमानं वपुरिति समता । यतः प्रथमतीर्थकृतो रूपं स्वर्णवर्णं वर्ण्यते ॥२९॥ कुन्दावदातचलचामरचारुशोभं
विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्कशुचिनिर्झरवारिधार
मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ कुन्दा० । हे पारगत ! कलधौतकान्तं चामीकररुचिरं तव वपुर्देहं विभ्राजते । किंभूतम् ? कुन्दवदवदाताभ्यां चलाभ्यां चामराभ्यां चार्वी मनोज्ञा शोभा यस्य, तत् । [किमिव ?] सुरगिरेरुच्चैस्तटमिव शिखरमिव । यथा शातकौम्भं सौवर्णम्, उच्चैः उच्चं सुरगिरेमरोस्तटं प्रस्थं भाति । तदपि तटं उद्यन् उद्गच्छन् शशाङ्कश्चन्द्रवत् शुचिर्धवला निर्झरस्य वारिधारा जलवेणी यत्र [यस्माद् वा], तत् । अत्र मेरुतटसमं श्रीनाभेयदेहम्, निर्झरजलधारा वरे चामरे इत्युपमा मनोरमा ॥३०॥ छत्रत्रयं तव विभाति शशाङ्ककान्त
मुच्चैः स्थितं स्थगितभानुकरप्रतापम् ।

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146