Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
सप्टेम्बर २०१०
यत्र स तथा, तस्मिन् । किंभूता जनाः ? रङ्गत्तरङ्गशिखरस्थितयानि(न)पात्रा उच्छलत्कल्लोलाग्रवर्तवहनाः (वर्तिवहनाः) । नक्रचक्रं दुष्टजलजन्तुवृन्दम् । पाठीनपीठौ मत्स्यभेदौ । धनावहकथा ज्ञेया ॥४०॥ अथ रोगभयं भिन्दन्नाहउद्भूतभीषणजलोदरभारभुग्नाः
शोच्यां दशामुपगताश्च्युतजीविताशाः । त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा
मा भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥ उद्भूत० । हे कर्मव्याधिधन्वन्तरे ! मां नरा उद्भूतभीषणजलोदरभारभुग्ना उत्पन्नरौद्रोदरवृद्धिव्याधिभरवक्रीकृताः, भग्ना वा पाठे मोटिताः । शोच्यां दशामुपगता दीनामवस्थां प्राप्ताः । च्युतजीविताशास्त्यक्तजीवितवाञ्छाः । एवंभूतास्त्वत्पादपङ्कजरजोमृतदिग्धदेहा भवच्चरणकमलरेणुसुधालिप्तवपुषः । मकरध्वज[तुल्य] रूपाः कामसममूर्तयः कमनीयकान्तयो भवन्ति । यथा सुधापानाभिषेकात् सर्वरोगनाशस्तथा भवत्पदपद्माश्रयणादपि सकलबोधे(व्याधे)रुपशम इति । राजहंसकुमारस्य कथा ज्ञेया ॥४१॥ अथ बन्दिबन्धनभयं क्रन्दन्नाहआपादकपठमुरुशृङ्खलवेष्टिताङ्गा
गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः ।।
सद्यः स्वयं विगतबन्धभया भवन्ति ॥४२॥ आपाद० । हे अप्रतिचक्रार्चितचरण ! आपादकण्ठ(-कण्ठं) पदं(पदगलं) यावद् उरुशृङ्खलवेष्टिताङ्गाः गुरुलोहदामव्याप्तवपुषः गाढं निबिडं बृहन्निगडकोटिनिघृष्टजङ्घा विकटाष्टीलाग्रकर्षितनलकिनीका मनुजा नराः, त्वन्नाममन्त्र(न्त्रम्) ॐ ऋषभाय नमः' इति पदमनिशं सदा जपन्तो ध्यायन्तः सद्यस्तत्कालं स्वयमात्मनैव विगतबन्धभयाः स्व(ध्वस्त)बन्धनशङ्का भवन्त(न्ति) जायन्त इति । एतस्य महिमा पूर्वं श्रीमानतुङ्गाचार्याणां निबिज(ड) [निगड]शृङ्खलजालभञ्जनादभूत्, तदनु रणपालादीनां बहूनामपि ॥४२॥

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146