SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २०१० यत्र स तथा, तस्मिन् । किंभूता जनाः ? रङ्गत्तरङ्गशिखरस्थितयानि(न)पात्रा उच्छलत्कल्लोलाग्रवर्तवहनाः (वर्तिवहनाः) । नक्रचक्रं दुष्टजलजन्तुवृन्दम् । पाठीनपीठौ मत्स्यभेदौ । धनावहकथा ज्ञेया ॥४०॥ अथ रोगभयं भिन्दन्नाहउद्भूतभीषणजलोदरभारभुग्नाः शोच्यां दशामुपगताश्च्युतजीविताशाः । त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा मा भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥ उद्भूत० । हे कर्मव्याधिधन्वन्तरे ! मां नरा उद्भूतभीषणजलोदरभारभुग्ना उत्पन्नरौद्रोदरवृद्धिव्याधिभरवक्रीकृताः, भग्ना वा पाठे मोटिताः । शोच्यां दशामुपगता दीनामवस्थां प्राप्ताः । च्युतजीविताशास्त्यक्तजीवितवाञ्छाः । एवंभूतास्त्वत्पादपङ्कजरजोमृतदिग्धदेहा भवच्चरणकमलरेणुसुधालिप्तवपुषः । मकरध्वज[तुल्य] रूपाः कामसममूर्तयः कमनीयकान्तयो भवन्ति । यथा सुधापानाभिषेकात् सर्वरोगनाशस्तथा भवत्पदपद्माश्रयणादपि सकलबोधे(व्याधे)रुपशम इति । राजहंसकुमारस्य कथा ज्ञेया ॥४१॥ अथ बन्दिबन्धनभयं क्रन्दन्नाहआपादकपठमुरुशृङ्खलवेष्टिताङ्गा गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः ।। सद्यः स्वयं विगतबन्धभया भवन्ति ॥४२॥ आपाद० । हे अप्रतिचक्रार्चितचरण ! आपादकण्ठ(-कण्ठं) पदं(पदगलं) यावद् उरुशृङ्खलवेष्टिताङ्गाः गुरुलोहदामव्याप्तवपुषः गाढं निबिडं बृहन्निगडकोटिनिघृष्टजङ्घा विकटाष्टीलाग्रकर्षितनलकिनीका मनुजा नराः, त्वन्नाममन्त्र(न्त्रम्) ॐ ऋषभाय नमः' इति पदमनिशं सदा जपन्तो ध्यायन्तः सद्यस्तत्कालं स्वयमात्मनैव विगतबन्धभयाः स्व(ध्वस्त)बन्धनशङ्का भवन्त(न्ति) जायन्त इति । एतस्य महिमा पूर्वं श्रीमानतुङ्गाचार्याणां निबिज(ड) [निगड]शृङ्खलजालभञ्जनादभूत्, तदनु रणपालादीनां बहूनामपि ॥४२॥
SR No.520553
Book TitleAnusandhan 2010 09 SrNo 52
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy