________________
४६
अनुसन्धान ५२
अथाष्टभीनाशे[न] स्तवं संक्षिपन्नाहमत्तद्विपेन्द्र-मृगराज-दवानलाऽ-हि
सङ्ग्राम-वारिधि-महोदर-बन्धनोत्थम् । तस्याऽऽशु नाशमुपयाति भयं भियेव
यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ मत्त० । हे अमेयमहिमन् ! तस्य प्राणिनो भयं भीः आशु शीघ्रं [भियेव] भयेनेव नाशमुपयाति ध्वंस[मा]याति, यो मतिमान् सप्रसिद्धिः (सप्रज्ञः) पुमान् तावकं भवदीयमिमं प्रागुक्तस्वरूपं स्तवं स्तोत्रमधीते पठति । किंभूतं भयम् ? मत्तद्विपेन्द्रश्च मृगराजश्च दवानलश्च अहिश्च सङ्ग्रामश्च वारिधिश्च महोदरश्च बन्धनं च तेभ्य उत्था उत्पत्तिर्यस्य [त]त् ॥४३॥ [अथ स्तवप्रभावसर्वस्वमाह-] स्तोत्रस्रजं तव जिनेन्द्र ! गुणैर्निबद्धां
भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्रं
__'मानतुङ्ग'मवशा समुपैति लक्ष्मीः ॥४४॥
स्तोत्रस्रजं० । हे जिनेन्द्र ! [केवलिपते !] इह जगत्यां यो जनोऽजस्रमनवरतं तव स्तोत्रं तवं(स्तवं) बहुपदसन्दर्भितत्वात् स्रगिव स्तोत्रस्रक् [तां] स्तोत्रमालां कण्ठगतां कण्ठपीठलुठ(ठि)तां करोति, [पठती]त्यर्थः । किंभूताम् ? भक्त्या भावपूर्वं मया श्रीमानतुङ्गसूरिणा गुणैः पूर्वोक्तैः [ज्ञानाद्यैः] निबद्धां रचितां, रुचिरा मनोज्ञा वर्णा आ(अ)काराद्या विचित्राणि यमकाऽनुप्रास-व्यङ्ग्यादिना विशेषेणाद्भुतानि पुष्पाणीव यस्या (यस्यां) ताम् । लक्ष्मीः श्रीः । तु मानतुझं साभिमानम् । अवशा तद्गतचित्ता । एतस्य वृत्तस्य वृत्तावर्थषट्कं प्ररूपितमस्ति, अत्रैक एवार्थो व्याख्यातोऽस्ति, शेषमर्थपञ्चकं स्वयमभ्यूह्यं तज्ज्ञैः ।। इति श्रीभक्तामरस्तोत्रस्यावचूरिलिखिता वृत्तेरुपरि ॥
छः ॥ श्री छः ॥३७६॥
c/o. जैन उपाश्रय, कृष्णनगर,
भावनगर-३६४००१