SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४४ उद्यद्दिवाकरमयूखशिखापविद्धं त्वत्कीर्तनात् तम इवाऽऽशु भिदामुपैति ॥ ३८॥ अनुसन्धान ५२ वल्ग॰ । हे देवाधिदेव ! त्वत्कीर्तनात् त्वन्नामग्रहणादाजौ सङ्ग्रामे बलवतामपि भूपतीनां राज्ञां बलं सैन्यं भिदामुपैति स्फुटनमायाति । किंभूतम् ? वल्गतां धावतां तुरङ्गाणां गजानां च गर्जितानि भीमनादा यत्र तत् । [ अथवा क्रियाविशेषणस्य] सङ्ग्रामस्य । किमिव ? तम इव । [ यथा] उद्यद्दिवाकरमयूखशिखापविद्धमुद्गच्छत्सूरकरततिप्रेरितं सूर्यकरक्षिप्तं तमोऽन्धकारं याति प्रलयं प्रयाति, तद्वदित्यर्थः ॥३८॥ किञ्च कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधभी । युद्धे जयं विजितदुर्जयजेयपक्षा स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥३९॥ कुन्ता० । हे जिनेश्वर ! त्वत्पादपङ्कजवनाश्रयिणस्त्वत्पदपद्मखण्डभाजो जना युद्धे रणे जयं विजयं लभन्ते प्राप्नुवन्ति । किंभूते युद्धे ? कुन्ताग्रैर्भल्लाग्रैर्भिन्नानां पाटि[ता]नां गजानां शोणितं रक्तमेव वारिवाहो जलप्रवाहः, तस्मिन् वेगावतारात् शीघ्रप्रवेशात् तरणे प्लवने आकुलैः (आतुरैः) व्याकुलैर्योधैर्भटैर्भीमम्, तस्मिन्। किंभूता जना: ? विजितः पराजितो दुर्जयोऽजयो जेयपक्षो जेतव्यगणो यैस्ते इति। रणकेतुराज्ञः कथा ||३९|| अथ जलापदं शमयन्नाह अम्भोनिधौ क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ । रङ्गत्तरङ्गशिखरस्थितयानपात्रा स्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ अम्भो० । [हे भववार्धिपोत !] अम्भोनिधौ समुद्रे एवंविधे सति सांयात्रिका जना भवतः स्मरणात् त्रासमाकस्मिकं भयं विहाय त्यक्त्वा व्रजन्ति क्षेमेण स्वस्थानं यान्ति । किंभूते ? क्षुभितानि क्षोभं गतानि भीषणानि रौद्राणि नक्रचक्राणि च पाठीनाश्च पीठाश्च, भयदो भीकृत्, उल्बणः प्रकटो वाडवाग्निश्च
SR No.520553
Book TitleAnusandhan 2010 09 SrNo 52
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy