________________
सप्टेम्बर २०१०
मुक्ताफलप्रकरेण मौक्तिकसमूहेन भूषितो मण्डितो भूमिभागो येन सः । बद्धाः क्रमाः पादविक्षेपा यस्य सः । देवराजस्य कथा ज्ञेया ॥ ३५ ॥ अथ दावानलभयं निरस्यति
कल्पान्तकालपवनोद्धतवह्निकल्पं
दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव सम्मुखमापतन्तं
त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥३६॥
कल्पां०। हे कर्मक्षयकृशानो! त्वन्नामकीर्तनजलं त्वदभिधानस्तवननीरमशेषं सकलं दावानलं वनवह्निः (-वहिनं) शमयति विनाशयति । किंभूतं दावानलम् ? कल्पान्तकालपवनेन युगान्तसमयवातेन उद्धत उत्कटो यो वह्निरग्निस्तेन कल्पम् । ज्वलितं दीप्तम् । उज्ज्वलं ज्वालारक्तम् । उत्स्फुल्लिङ्गमुल्लसव(द्व) ह्निकणम् । विश्वं जिघत्सुमिव जगज्जिग्रसिषुमिव । सम्मुखमापतन्तमभिमुखमायान्तम् । त्वन्नामस्मरणनीरं दावानलं स्फोटयतीत्यर्थः । प्रभावे लक्ष्मीधरकथा ॥३६॥ अथ भुजङ्गभयं दलयन्नाह
रक्तेक्षणं समदकोकिलकण्ठनीलं
क्रोधोद्धतं फणिनमुत्फणमापतन्तम् ।
आक्रामति क्रमयुगेन निरस्तशङ्क
स्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥३७॥
४३
रक्ते॰ । हे नागपतिसेव्य ! पुंसो हृदि त्वन्नामनागदमनी त्वन्नाममेव (त्वन्नामैव) नागदमनी ओषधीविशेषो जाङ्गुलीविद्या वा । स निरस्तशङ्को निर्भयः क्रमयुगेन निजपदद्वन्द्वेन फणिनं सर्पमाक्रमति घर्षति रज्जुवत् स्पृशतीति। किंभूतम् ? रक्तेक्षणं ताम्रनेत्रम् । समदकोकिलकण्ठनीलं मत्तपिकगलकालम् । क्रोधोद्धतं कोपोत्कटम् । उत्फणमूर्ध्वकृतफटम् । आपतन्तं सम्मुखं धावन्तम् । प्रभावे महेभ्यश्रेष्ठिनः कथा ॥३७॥
अथ रणान्तकं संहरन्नाह
वल्गत्तुरङ्गगजगर्जितभीमनाद
माजौ बलं बलवतामपि भूपतीनाम् ।