SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४२ अनुसन्धान ५२ धर्मव्याख्यानक्षणे तव विभूतिरतिशयरूपा समृद्धिरभूत् यथा तद्वदपरस्य ब्रह्मादिसुरस्य नाऽऽसीत् । अत्र दृष्टान्तः-दिनकृतः सूर्यस्य प्रहतान्धकारा ध्वस्तध्वान्ता यादृग् यादृशी प्रभा वर्तते, विकाशिनोऽपि उदितस्याऽपि ग्रह[ग]णस्य भौमादेस्ताक् तादृशी प्रभा कुत[:] कस्माद् भवति । अस्मिन् वृत्ते सर्वसम्पत्करो मन्त्रोऽस्ति । महिमनि जिणहाकस्य कथा ज्ञेया ॥३३।। अथ गजभयहरं तीर्थकरं स्तौतिश्च्योतन्मदाविलविलोलकपोलमूल मत्तभ्रमभ्रमरनादविवृद्धकोपम् । ऐरावताभमिभमुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥ श्च्यो० । हे गजपतिगते ! त्वदाश्रितानां त्वच्चरणशरणस्थानां जनानामापतन्तमागच्छन्तमिभं दुष्टगजं दृष्ट्वा भयं न भवति । किंभूतम् ? श्च्योतन् क्षरन् यो मदो मदवारि, तेन आविला व्याप्ताः विलोलं चञ्चलं कपोलमूलम्, तस्मिन् मत्ताः क्षीबाः सन्तो भ्रमन्तो भ्रमणशीला ये भ्रमराः, तेषां नादेन झङ्कारध्वनिना विवृद्धो वृद्धिं गतः कोपः क्रोधो यस्य तम् । ए(ऐ)रावताभं महाकायत्वादैरावणसममुद्धतमविनीतं दुर्दान्तमिति । एषु वृत्तेषु वक्षमाणतत्तीर्थकृद्भीहर (तत्तद्भीहर) -वृत्तवर्णा एव मन्त्राः पुनः [पुनः] स्मर्तव्याः, अतो नाऽपरमन्त्र-निवेदनम् । प्रभावे सोमराजा(राज)कथा ज्ञेया ॥३४॥ अथ सिंहभयं क्षिपतिभिन्नेभकुम्भगलदुज्ज्वलशोणिताक्त मुक्ताफलप्रकरभूषितभूमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाऽऽक्रामति क्रमयुगाचलसंश्रितं ते ॥३५॥ भिन्ने० । हे पुरुषसिंह ! हरिणाधिपोऽपि सिंहोऽपि क्रमगतं फालप्राप्त ते तव क्रमयुगाचलसंश्रितं चरणयुग्मपर्वतकृतावासं पुरुषं न आक्रमति न ग्रहणाय उद्यतते न हन्तुमुद्धावति । किंभूतो हरिणाधिपः ? भिन्नाभ्यां विदारिताभ्यामिभकुम्भाभ्यां गलता पतता उज्ज्वलेन रक्तश्वेतवर्णेन शोणिताक्तेन रुधिरव्याप्तेन
SR No.520553
Book TitleAnusandhan 2010 09 SrNo 52
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy