Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
४४
उद्यद्दिवाकरमयूखशिखापविद्धं
त्वत्कीर्तनात् तम इवाऽऽशु भिदामुपैति ॥ ३८॥
अनुसन्धान ५२
वल्ग॰ । हे देवाधिदेव ! त्वत्कीर्तनात् त्वन्नामग्रहणादाजौ सङ्ग्रामे बलवतामपि भूपतीनां राज्ञां बलं सैन्यं भिदामुपैति स्फुटनमायाति । किंभूतम् ? वल्गतां धावतां तुरङ्गाणां गजानां च गर्जितानि भीमनादा यत्र तत् । [ अथवा क्रियाविशेषणस्य] सङ्ग्रामस्य । किमिव ? तम इव । [ यथा] उद्यद्दिवाकरमयूखशिखापविद्धमुद्गच्छत्सूरकरततिप्रेरितं सूर्यकरक्षिप्तं तमोऽन्धकारं याति प्रलयं प्रयाति, तद्वदित्यर्थः ॥३८॥ किञ्च
कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधभी ।
युद्धे जयं विजितदुर्जयजेयपक्षा
स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥३९॥
कुन्ता० । हे जिनेश्वर ! त्वत्पादपङ्कजवनाश्रयिणस्त्वत्पदपद्मखण्डभाजो जना युद्धे रणे जयं विजयं लभन्ते प्राप्नुवन्ति । किंभूते युद्धे ? कुन्ताग्रैर्भल्लाग्रैर्भिन्नानां पाटि[ता]नां गजानां शोणितं रक्तमेव वारिवाहो जलप्रवाहः, तस्मिन् वेगावतारात् शीघ्रप्रवेशात् तरणे प्लवने आकुलैः (आतुरैः) व्याकुलैर्योधैर्भटैर्भीमम्, तस्मिन्। किंभूता जना: ? विजितः पराजितो दुर्जयोऽजयो जेयपक्षो जेतव्यगणो यैस्ते इति। रणकेतुराज्ञः कथा ||३९||
अथ जलापदं शमयन्नाह
अम्भोनिधौ क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ ।
रङ्गत्तरङ्गशिखरस्थितयानपात्रा
स्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥
अम्भो० । [हे भववार्धिपोत !] अम्भोनिधौ समुद्रे एवंविधे सति सांयात्रिका जना भवतः स्मरणात् त्रासमाकस्मिकं भयं विहाय त्यक्त्वा व्रजन्ति क्षेमेण स्वस्थानं यान्ति । किंभूते ? क्षुभितानि क्षोभं गतानि भीषणानि रौद्राणि नक्रचक्राणि च पाठीनाश्च पीठाश्च, भयदो भीकृत्, उल्बणः प्रकटो वाडवाग्निश्च

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146