Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
४२
अनुसन्धान ५२
धर्मव्याख्यानक्षणे तव विभूतिरतिशयरूपा समृद्धिरभूत् यथा तद्वदपरस्य ब्रह्मादिसुरस्य नाऽऽसीत् । अत्र दृष्टान्तः-दिनकृतः सूर्यस्य प्रहतान्धकारा ध्वस्तध्वान्ता यादृग् यादृशी प्रभा वर्तते, विकाशिनोऽपि उदितस्याऽपि ग्रह[ग]णस्य भौमादेस्ताक् तादृशी प्रभा कुत[:] कस्माद् भवति । अस्मिन् वृत्ते सर्वसम्पत्करो मन्त्रोऽस्ति । महिमनि जिणहाकस्य कथा ज्ञेया ॥३३।। अथ गजभयहरं तीर्थकरं स्तौतिश्च्योतन्मदाविलविलोलकपोलमूल
मत्तभ्रमभ्रमरनादविवृद्धकोपम् । ऐरावताभमिभमुद्धतमापतन्तं
दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥ श्च्यो० । हे गजपतिगते ! त्वदाश्रितानां त्वच्चरणशरणस्थानां जनानामापतन्तमागच्छन्तमिभं दुष्टगजं दृष्ट्वा भयं न भवति । किंभूतम् ? श्च्योतन् क्षरन् यो मदो मदवारि, तेन आविला व्याप्ताः विलोलं चञ्चलं कपोलमूलम्, तस्मिन् मत्ताः क्षीबाः सन्तो भ्रमन्तो भ्रमणशीला ये भ्रमराः, तेषां नादेन झङ्कारध्वनिना विवृद्धो वृद्धिं गतः कोपः क्रोधो यस्य तम् । ए(ऐ)रावताभं महाकायत्वादैरावणसममुद्धतमविनीतं दुर्दान्तमिति । एषु वृत्तेषु वक्षमाणतत्तीर्थकृद्भीहर (तत्तद्भीहर) -वृत्तवर्णा एव मन्त्राः पुनः [पुनः] स्मर्तव्याः, अतो नाऽपरमन्त्र-निवेदनम् । प्रभावे सोमराजा(राज)कथा ज्ञेया ॥३४॥ अथ सिंहभयं क्षिपतिभिन्नेभकुम्भगलदुज्ज्वलशोणिताक्त
मुक्ताफलप्रकरभूषितभूमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि
नाऽऽक्रामति क्रमयुगाचलसंश्रितं ते ॥३५॥ भिन्ने० । हे पुरुषसिंह ! हरिणाधिपोऽपि सिंहोऽपि क्रमगतं फालप्राप्त ते तव क्रमयुगाचलसंश्रितं चरणयुग्मपर्वतकृतावासं पुरुषं न आक्रमति न ग्रहणाय उद्यतते न हन्तुमुद्धावति । किंभूतो हरिणाधिपः ? भिन्नाभ्यां विदारिताभ्यामिभकुम्भाभ्यां गलता पतता उज्ज्वलेन रक्तश्वेतवर्णेन शोणिताक्तेन रुधिरव्याप्तेन

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146