Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३०
अनुसन्धान ५२
अथ सर्वज्ञनामग्रहणमेव विघ्नहरमाहआस्तां तव स्तवनमस्तसमस्तदोषं
त्वत्संकथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्त्रकिरणः कुरुते प्रभैव
पद्माकरेषु जलजानि विकासभाञ्जि ॥९॥ आस्तां० । अष्टादशदोषनिर्नाशन ! अस्तसमस्तदोषं निर्मूलितनिखिलदूषणं तव स्तवनं गुणोत्कीर्तनमास्तां तिष्ठतु दूरे । स्तवमहिमा महीयान् वर्तते । त्वत्संकथा त्वत्सम्बन्धिनी त्वद्विषयिणी पूर्वभवसम्बद्धनामवार्ताऽपि जगतां लोकानां दुरितानि पापानि विघ्नानि वा हन्ति । औपम्यं यथा-सहस्रकिरणः सूर्यो दूरे तिष्ठतु, प्रभैव अरुणच्छायैव पद्माकरेषु सरस्सु जलजानि मुकुलरूपकमलानि विकाशभाञ्जि स्मेराणि कुरुते । यदा सूर्योदयात् पूर्वप्रवर्तनी(-वतिनी) प्रभातप्रभा पद्मविकाश(शि)नी स्यात्, तदा सूर्यस्य किमुच्यते ?। तथा भगवद्गुणोत्कीर्तनस्तवमाहात्म्यं न कश्चिद् वक्तुमलम् । जिन(नाथ?) नामग्रहणसंकथैव सर्वदुरिति(त)नाश(शि)नीति । सर्वरक्षाकारी मन्त्रो ज्ञेयः, केशवश्रेष्ठिवत् ॥९॥ अथ जिनस्तुति[सेवा]फलमाहनाऽत्यद्भुतं भुवनभूषणभूत ! नाथ !
भूतैर्गुणैर्भुवि भवन्तमभिष्टवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा
भूत्याऽऽश्रितं य इह नाऽऽत्मसमं करोति ॥१०॥ नात्य० । हे भुवनभूषणभूत !, भूतशब्दोऽत्रोपमावाची, हे विश्वमण्डनसमान ! हे नाथ ! हे प्रभो ! भूतैविद्यमानैर्भुवि पृथिव्यां भवन्तं त्वामभिष्टुवन्तः स्तुवन्तो जना भवतस्तुल्या समा भवन्ति, एतन्नाऽत्यद्भुतं नाऽतिचित्रम् । अत्र व्यतिरेकमाह-ननु निश्चितम्, वाऽथवा, तेन स्वामिना किं कार्यं किं प्रयोजनम् ?, इह भवे जनमध्ये वा यः स्वामी आश्रितं सेवकं भूत्या ऋद्ध्या आत्मसमं निजतुल्यं न करोति न विधत्ते । अहमपि तीर्थङ्करं स्तुवन् तीर्थकृद्गोत्रार्जको भवितेति कवेराशयः ॥१०॥

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146