Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 40
________________ सप्टेम्बर २०१० लब्धवर्णो भावीति वृत्तभावार्थः ॥६॥ हेतुमुक्त्वा स्तवकरणे यो गुणस्तमाहत्वत्संस्तवेन भवसन्ततिसन्निबद्धं पापं क्षणात् क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु । सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥ त्वत्सं० । हे सकलपातकनाशन ! जिन ! त्वत्संस्तवेन भवद्गुणोत्कीर्तनेन शरीरभाजां प्राणिनां भवसन्ततिसन्निबद्धं जन्मकोटिसमर्जितं पापमष्टविधं कर्म क्षणाद् घटिकाषष्टांशेन स्तोककालाद् वा क्षयमुपैति निर्माशमुपयाति, शरीरभाजां जीवानाम् । अमुमेवार्थमुपमिमीते- पापे (पापं) किमिव ? अन्धकारमिव । यथा शार्वरं कृष्णपक्षि(-पक्ष-)रात्रि तिमिरं सूर्यांशुभिन्नं सहस्रकिर(-कर-) रोचिविदारितमाशु शीघ्रं क्षयं गच्छति यतः । किंभूतमन्धकारम् ? आक्रान्तलोकं व्याप्तविश्वम्, अलिनीलं मधुकरकुलकृष्णम्, अशेषं सकलम्, न तु स्तोकम् । पापविशेषणान्यप्यौचित्येन कार्याणि । राजकुले विवादादिषु स्मर्यते । [सु] धनस्येव जयो भवति ॥७॥ स्तवारम्भसामर्थ्य द्रढयन्नाहमत्वेति नाथ ! तव संस्तवनं मयेद मारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥८॥ [मत्वे०] । हे नाथ ! पूर्वोक्तयुक्त्या स्तवनकरणं दुःकरं सर्वपापहरं चेति मत्वाऽवबुध्य मया भक्तिवशेन तनुधियाऽपि स्वल्पमतिनाऽपि इदं प्रत्यक्षं भण्यमानं संस्तवनं स्तोत्रम्, कर्तुमिति शेषः, आरभ्यते करणायोद्यम्यते । इदं स्तवनं मत्कृतमपि तव प्रभावात् भवतोऽनुभावात् सतां सज्जनानां चेतो हरिष्यति मनो हरिष्यति, न तु दुर्जनानाम् । ननु [इति] निश्चये, उदबिन्दुरिच्छटा नलिनीदलेषु कमलिनीपत्रेषु मुक्ताफलद्युतिं मौक्तिकच्छायामुपैति उपागच्छति । अत्र 'उदस्योदः' (पाणि० ६।३।५७) इति निपातः ॥८॥

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146