Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
सप्टेम्बर २०१०
२७
त्रितयस्य चित्तं हरन्तीति तथा, तैः । उदारैर्महाथैः ॥
अत्राऽऽद्यवृत्तेऽतिशयाः, यथा-उद्योतकमिति पूजातिशयः । दलितपापतमोवितानमिति अपयापगमातिशयः, आलम्बनमिति ज्ञान-वचनातिशयौ, यतो ज्ञानी सद्वाक्यश्च जनाधारो भवति ॥ काव्यद्वयस्मरणाद् विपत्प्रलयो भवति, हेमश्रावकवत् ॥१-२॥ इति (अथ) कविरात्मौद्धत्यं परिजिहीर्षुराहबुद्धया विनाऽपि विबुधार्चितपादपीठ
स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्दुबिम्ब
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥३॥ बुद्ध्या० । हे विबुधार्चितपादपीठ ! हे दैवतव्रातपूजितपदासन ! बुद्ध्या विनाऽप्यहं मानतुङ्गाचार्यः स्तोत्रं(स्तोतुं) समुद्यतमतिः स्तवाय कृतमतिव्यापारो वर्ते । अत एव विगतत्रपोऽशक्यवस्तुनि प्रवर्तनान्निर्लज्जः । दृष्टान्तमाह- बालं शिशुं विहाय मुक्त्वा कोऽन्योऽपरो जनः सचेतनो जलसंस्थितं नीरकुण्डमध्यप्रतिबिम्बितम् इन्दुबिम्बं चन्द्रमण्डलं ग्रहीतुं सहसा तत्कालमिच्छत्यभिलषति ?। बालस्तद्ग्रहणाग्रह[ग्रहि]लो भवति, नाऽपरः, अहमपि बालरूपो ज्ञेयः ॥३॥ अथ जिनेन्द्रस्तुतावन्येषां दुःकरतां दर्शयन्नाहवक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान्,
कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या ?। कल्पान्तकालपवनोद्धतनक्रचक्र,
___ को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥
वक्तु० । हे गुणसमुद्र ! स्थैर्यादिगुणरत्नरत्नाकर ! को बुधस्ते तव शशाङ्ककान्तान् निर्मला (निर्मलकलाभृत्) कमनीयान् शान्ततादीन् गुणान् वक्तुं जल्पितुं क्षमः समर्थः । किंभूतोऽपि ? प्रतिभया सुरगुरुप्रतिमोऽपि वाचस्पतिसमोऽपि । अत्र दृष्टान्तः-वाऽथवा अम्बुनिधि कस्तरणकलाकुशलो नरो भुजाभ्यां तरीतुं प्राप्तुमलंमशक्तः (प्राप्तुमलं शक्तः) ? अपि तु न कश्चिदित्यर्थः । किंभूतमम्बुनिधिम् ? कल्पान्तकालस्य पवनेनोद्धतानि ऊर्ध्वं चलितानि नक्रचक्राणि

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146