Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 42
________________ सप्टेम्बर २०१० अथ जिनदर्शनफलमाहदृष्ट्वा भवन्तमनिमेषविलोकनीयं नाऽन्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ॥११॥ दृष्ट्वा० । हे प्रसन्नरूपस्वरूप ! अनिमे[षे]ण निर्निमेषेण विलोक्यते दृश्यत इत्यनिमेषविलोकनीयस्तम्, भवन्तं दृष्ट्वा वीक्ष्य जनस्य द्रष्टुर्भव्यस्य चक्षुर्नेत्रमन्यत्र देवान्तरे तोषं चित्तानन्दं नोपयाति उपैति । चक्षुरिति जातावेकवचनम् । अत्रोपमानम्- कः पुरुषो दुग्धसिन्धोः क्षीरसमुद्रस्य पयो दुग्धं जलं पीत्वा जलनिधेलवणाम्भोधेः क्षारं जलं कटुकं जलमशितुं स्वादितुं पातुमिच्छेत् ?, अपि तु न कश्चित् । दुग्धसिन्धोः पयः किंभूतम् ? शशिनः करास्तद्वद् द्युतिर्यस्येति तत् शशिकरद्युति चन्द्रकरद्युति चन्द्रकरनिर्मलम् । सर्वकर्मकरो मन्त्रः कपदिश्राद्धवत् कामधेनुसमागमात् ॥११॥ अय भ[ग]वद्रूपवर्णनमाहयैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूत ! । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत् ते समानमपरं नहि रूपमस्ति ॥१२॥ यैः शान्त० । त्रिभुवनैकलकामभूतः(भूत)! यैः परमाणुभिर्दलिकैनिर्माणकर्मणा त्वं निर्मापितः कृतः । किंभूतैः ? शान्ता रागस्य रुचिः कान्तिर्येभ्यस्ते तथा, तैः । राग[स]हचरितश्च द्वेषपरिग्रहः । अथवा शान्तनामा नवमो रसस्तस्य रुचिः छाया येषु, तैः । खलु निश्चितम्, तेऽप्यणवस्तावन्त एव भगवद्रूपनिर्माणप्रमाणा एव प्रवर्तन्ते । यद् यस्मात् कारणात् पृथिव्यां भूपीठे ते तव समानं तुल्यमपरमन्यद् रूपं नाऽस्ति विद्यते । 'यैः परमाणुभिस्तेऽणवः' इति पौनरुक्त्यम् । तत्रेयं व्याख्या- औदारिकवर्गणायामभव्येभ्योऽनन्तगुणाणु-निष्पन्नाः स्कन्धा अनन्ताः सन्ति, तेषु स्कन्धेष्वणवः स्तोका एव जिनरूपपरमाणवः । अणुशब्दः स्तोकवाची, अथवा महाकविप्रयुक्तत्वाद् वा न पौनरुक्त्यम् । सारस्वतीविद्याऽस्त्यस्मिन्

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146