Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२६
अनुसन्धान ५२
गृहान्तः क्षिप्ताः । तत्र स्तोत्रस्यैकेन वृत्तेनैककं बन्धनं त्रुटितं क्रमेण । एके वदन्ति- द्विचत्वारिंशता वृत्तेनैकेन पेतुः । तालकभङ्गोऽपि [अ]जनिष्ट । बहिरागताः सूरयः । नमस्कृताः श्रीभोजेन । 'जिन(जैन)-दर्शनं सकलम्' इति मेने । इति स्तवमूलप्रबन्धः ॥ अथाऽर्थो लिख्यते, यथाभक्तामरप्रणतमौलिमणिप्रभाणा-मुद्योतकं दलितपापतमोवितानम् । सम्यक् प्रणम्य जिनपादयुगं युगादा-वालम्बनं भवजले पततां जनानाम् ॥१॥ यः संस्तुतः सकलवाङ्मयतत्त्वबोधा-दुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्रितयचित्रहरैरुदारैः स्तोष्ये किलाऽहमपि तं प्रथमं जिनेन्द्रम् ॥२॥
सम्यग् जिनपादयुगं प्रणम्य, 'किल' इति सम्भावनायाम्, 'अहं तं प्रथमं जिनेन्द्रं स्तोष्ये' इति सम्बन्धः । जिनस्य प्रथमतीर्थकृतः, पादौ चरणौ, तयोर्युगं युग्मं जिनपादयुगम्, सम्यक् त्रिकरणशुद्ध्या नत्वा । किंभूतम् ? उद्योतयतीति उद्योतकं प्रकाशकम् । भक्ताः परिचर्यायुक्ता येऽमरा देवास्तेषां नमस्कारवशात् प्रणता नम्रा ये मौलयो मुकुटानि शिरांसि वा, तेषां मणयश्चन्द्रकान्तादयस्तासां (तेषां) प्रभा रुचिस्तासाम् । पुनः किंलक्षणम् ? दलितं क्षिप्तं पापमेव तमोवितानं ध्वान्तजाल(लं) येन तत् । ऋजुजडनराणां शिल्पि (शिल्प)नीति-लिपिकलादर्शनात् चतुःपुरुषार्थप्रकटनाद् द्विविधधर्मप्रकाशनाद् वा भगवता सुषमदुःषमाप्रान्तेऽपि युगादिकालः कृतः, अतो युगादौ । भवो जन्म-जरामरणरूपः संसार एव जलम्, तत्र भवजले पततां मज्जतां भव्यसत्त्वानाम्, आलम्बनमाधारः सदुपदेशात् । यया जले पततां द्वीपं यानपात्रं [वा] आलम्बनम्, तथा भवे निमज्जतां जिनपादार[विन्द]मेवाऽऽधारः । अहमपि मानतुङ्गाचार्योऽज्ञोऽपि सुरेन्द्राद्यपेक्षया जडधीः, नाऽन्येषामपेक्षयेति हृदयम् । स्तोष्ये गुणोद्भावनेन कीर्तयिष्यामि । तं प्रथमं श्रीनाभेयं जिनम् । यत्तदोनित्याभिसम्बन्धाद् यो भगवान् स्तोत्रैः शक्रस्तवाद्यैः, सुष्ठ राजन्ते सुराः, तेषां लोकः स्वर्गस्तस्य नाथैः प्रभुभिः सुरलोकनाथैः, संस्तुतः सम्यग् नुतः । [अथवा] सुरश्चाऽसौ लोकश्च सुरलोको देवसमूहस्तस्य नाथैरिन्द्रैः । किंभूतैस्तैः ? सकलं सम्पूर्णं यद् वाङ्मयं शास्त्रजातं तस्य तत्त्वं रहस्यम्, तस्य बोधाद् ज्ञानात् परिच्छेदाद्, उद्भूता उत्पन्ना या बुद्धिः प्रज्ञा, तया पटुभिः कुशलैः । स्तोत्रैः किंभूतैः ? जगतां भूर्भुवः स्वः]स्वरूपाणां

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146