SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३२ वृत्ते । सुबुद्धिमन्त्रीशस्य कथा ज्ञेया ॥१२॥ अथ मुखवर्णनमाह वक्त्रं क्व ते सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्त्रितयोपमानम् । बिम्बं कलङ्कमलिनं क्व निशाकरस्य यद् वासरे भवति पाण्डुपलाशकल्पम् ॥१३॥ वक्त्रं॰ । अत्र क्वशब्दौ महदन्तरं सूचयतः । हे सौम्यवदन ! क्व ते तव वक्त्रं वर्तते ? क्व निशाकरस्य चन्द्रस्य बिम्बं मण्डलं विद्यते । किंभूतं वक्त्रम् ? सुरनरोरु(र)गाणां नेत्राणि हर्तुं शीलमस्येति विग्रहः । उरगा भवनवासिनः । पुनः किंभूतम् ? निःशेषाणि कमलदर्पणचन्द्रादीनि सर्वाणि ज (नि) र्जितानि जगत्त्रयस्योपमानानि येन तत् । चन्द्रबिम्बं [ किं ] भूतम् ? कलङ्कमलिनम् । यच्च चन्द्रबिम्बं वासरे दिने पाण्डुपलाशकल्पं जीर्णपक्वपाण्डुरपर्णसवर्णं भवति । मुखस्य तेनोपमा कथं घटत इति वृत्तार्थः । विद्या रोगापहारिणी समस्तवृत्तेऽस्मिन् ॥१३॥ अथ गुणव्याप्तिमाह– सम्पूर्णमण्डलशशाङ्ककलाकलाप अनुसन्धान ५२ शुभ्रा गुणास्त्रिभुवनं तव लड्ङ्घयन्ति । ये संश्रितास्त्रिजगदीश्वर ! नाथमेकं कस्तान् निवारयति सञ्चरतो यथेष्टम् ? ॥१४॥ सम्पू० । हे त्रिजगदीश्वर ! त्रिजगन्नाथ ! तव गुणास्त्रिभुवनं लङ्घयन्ति अतिक्रामन्ति । किंभूताः ? सम्पूर्णमण्डल [ : ] शशाङ्कः चन्द्र [स्त ] स्य कलाकलापः करनिकरस्तद्वत् शुभ्रा धवलाः । ये गुणा एकमद्वितीयं नाथं संश्रिताः । कः पुरुषो यथेष्टं स्वेच्छया सञ्चरन्तः परिभ्रमन्त: (सञ्चरत: परिभ्रमतः) तान् गुणान् निवारयति निषेधयति ? अपि तु न कश्चित् । अस्मिन् वृत्ते द्वे विद्ये विषापहारिणी विद्या सर्वसमा (मी) हितदायिके वडासुश्रावकाकथास्ति सत्यकश्रेष्ठिनः कन्या डाहीकथा चाऽस्ति ||१४||
SR No.520553
Book TitleAnusandhan 2010 09 SrNo 52
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy