Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 16
________________ सप्टेम्बर २०१० चारुचूतस्य कलिका: चा (रुचूतकलि) काः, चारुचूतकलिकानां निकर: चा (रुचूतकलिकानिक)र: । एकश्चासौ हेतुश्च एकहेतुः । चारुचूतकलिकानिकर एव एकहेतुः चा(रुचूतकलिकानिकरैक)हेतुः ॥६॥ त्वत्संस्तवेन भवसन्ततिसन्निबद्धं पापं क्षणात् क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥ त्वत्सं० ॥ हे नाथ ! त्वत्संस्तवेन शरीरभाजां पापं क्षणात् क्षयमुपैति । तव संस्तवस्त्वत्संस्तवस्तेन । शरीरं भजन्तीति शरीरभाजस्तेषाम् । किंलक्षणं पापं ?, भवसन्ततिसन्निबद्धं - जन्मकोटिसमर्जितम् । भवानां सन्ततिः भ(वसन्त)तिः। भवसन्तत्यां सन्निबद्धं भ ( वसन्ततिसन्नि) बद्धम् । दृष्टान्तमाहइव-यथा । शार्वरं अन्धकारं सूर्यांशुभिन्नं सत् क्षयमुपैति । शर्वर्यां भवं शार्वरम् । अन्धकारं कथम्भूतं ?, आक्रान्तलोकं - व्याप्तविश्वे (श्वमित्यर्थः । आक्रान्तो लोको येन तत् । पुनः किंलक्षणं ?, अलिनीलं अलिवन्नीलं, नीलत्र(त्रि)यामयोरैक्याद् भ्रमरवत् कृष्णम् । पुनः कथम्भूतं ?, अशेषं सर्वम् । पुनः कथम्भूतं ?, सूर्यांशुभिन्नम् । सूर्यप्रतापविदारितमित्यर्थः । सूर्यस्य अंशवः सू(र्यां)शव:, सूर्यांशुभिर्भिन्नम् । कथं ?, आशु - शीघ्रम् ॥७॥ मत्वेति नाथ ! तव संस्तवनं मयेद-मारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥८॥ मत्वेति० ॥ हे नाथ ! इदं तव संस्तवनं मया आरभ्यते । मया कथम्भूतेन ?, तनुधिया - स्वल्पमतिनेत्यर्थः । तन्वी धीर्यस्य स तनुधीस्तेन । किं कृत्वा ?, मत्वा अवबुद्ध्य । कथं ?, इति । इतीति किं ?, इदं स्तोत्रं सतां चेतः हरिष्यति । कस्मात् ? प्रभावात् - महिम्नः । कस्य तव । ननु निश्चितं उदबिन्दुः नलिनीदलेषु मुक्ताफलद्युतिमुपैति । उदकस्य बिन्दुः उदबिन्दुः। नलिनीनां दलानि नलिनीदलानि तेषु न (लिनीदले ) षु ॥८॥ आस्तां तव स्तवनमस्तसमस्तदोषं त्वत्सङ्कथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्त्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाञ्जि ॥९॥ आस्तां० ॥ हे नाथ ! तव स्तवनं दूरे आस्ताम् । त्वत्सङ्कथापि जगतां दुरितानि हन्ति । स्तवनं कथम्भूतं ?, अस्तसमस्तदोषं - समूलका -

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146