Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 27
________________ अनुसन्धान ५२ अभिरामौ । तत्र विबुधाः पद्मानि परिकल्पयन्ति-निर्मापयन्तीत्यर्थः ॥३२॥ इत्थं यथा तव विभूतिरभूज्जिनेन्द्र ! धर्मोपदेशनविधौ न तथा परस्य । यादृक् प्रभा दिनकृतः प्रहतान्धकारा __तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ॥३३॥ इत्थं० ॥ हे जिनेन्द्र ! इत्थं-अनेन प्रकारेण धर्मोपदेशनविधौ यथा तव विभूतिः अभूत् । धर्मस्य उपदेशनं धर्मोपदेश)नं, धर्मोपदेशनस्य विधिः धर्मोपदेशनविधिस्तस्मिन् । तथा अपरस्य सुरस्य न अभूत् । दृष्टान्तोऽत्र दिनकृतः यादृक् प्रभा [प्रहतान्धकारा] वर्तते, विकाशिनोऽपि ग्रहगणस्य तादृक् प्रभा कुतो भवतीत्यन्वयः । दिनं करोतीति दिनकृत्, तस्य दिनकृतः । प्रहतमन्धकारं यया सा प्र(हतान्धका)रा । विकाशोऽस्यास्तीति विकाशी तस्य विकाशिनः । ग्रहाणां गणो ग्रहगणस्तस्य ॥३३॥ श्च्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादविवृद्धकोपम् । ऐरावताभमिभमुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥ श्च्योतन्० ॥ हे नाथ ! भवदाश्रितानां पुंसां भयं नो भवति । भवन्तमाश्रिता भ(वदाश्रि)तास्तेषाम् । किं कृत्वा ?, दृष्ट्वा । कं कर्मतापन्नम् ? इभम् । किम्भूतमिभं?, ऐरावताभम् । ऐरावतवदाभा यस्य स ऐ(रावता) भस्तम् । पुनः किंलक्षणमिभं ?, उद्धतं-अविनीतम् । इभं किं कुर्वन्तं ?, आपतन्तम्सम्मुखमागच्छन्तम् । पुनः किंविशिष्टं ?, श्च्योतन्म (दाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादविवृद्ध) कोपम् । श्च्योतंश्चासौ मदश्च, श्च्योतन्मदेन आविलं श्च्यो(तन्मदाविलम्) । कपोलयोर्मूले कपोलमा(मू)ले, कपोल[मू]लयोर्मत्ताः कपोलमूलमत्ताः । भ्रमन्तश्च ते भ्रमराश्च भ्रमभ्रमराः । कपोलमूलमत्ताश्च ते भ्रमभ्रमराश्च कपो(लमूलमत्तभ्रमभ्रम)राः । श्च्योतन्मदाविलाश्च ते विलोलकपोलमूलमत्तभ्रमभ्रमराश्च श्च्योतन्म(दाविलविलोलकपोलमूलमत्तभ्रमद्) भ्रमराः । श्च्योतन्म(दाविलविलोलकपोलमूलमत्तभ्रमद्)भ्रमराणां नादः श्च्यो (तन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमर)नादः । श्च्योत (न्मदाविलविलोलपोलमूलमत्तभ्रमद्) भ्रमरनादेन विवृद्धः कोपो यस्य स श्च्यो (तन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादविवृद्धकोप) स्तम् ॥३४॥

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146