Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 28
________________ सप्टेम्बर २०१० १७ भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्त-मुक्ताफलप्रकरभूषितभूमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाक्रामति क्रमयुगाचलसंश्रितं ते ॥३५॥ __ भिन्नेभ० ॥ हे नाथ ! हरिणाधिपोऽपि ते-तव क्रमयुगाचलसंश्रितं पुरुषं न आक्रामतीत्यन्वयः । न हन्तुमुद्धावतीत्यर्थः । हरिणानामधिपो ह(रिणाधि)पः । क्रमयोर्युगं क्रमयुगं एवाऽचलः । क्रमयुगाचलं संश्रितः क्र(मयुगाचलसंश्रि)तः तम् । पुरुषं किम्भूतं ?, क्रमगतम् । क्रमेण गतः क्रमगतस्तं-फालप्राप्तमित्यर्थः । हरिणाधिपः किम्भूतः ?, बद्धक्रमः । बद्धःकीलितः क्रमः-पराक्रमो यस्य सः। पुनः किंविशिष्टः ?, भिन्नेभ (कुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफल-प्रकरभूषित )भूमिभागः । भिन्नाभ्यां हस्तिशिरःपिडा(ण्डा?)भ्यां गलता-पतता उज्ज्वलेन-श्वेतवर्णेन शोणिताक्तेनरुधिरखरण्टितेन मुक्ताफलप्रकरण-मौक्तिकसमूहेन भूषितो भूमिभागो येन सः । भिन्नश्चासाविभश्च भिन्नेभः । भिन्नेभस्य कुम्भौ भिन्नेभकुम्भौ । उज्ज्वलं च तत् शोणितं च उज्ज्वलशोणि)तम् । गलत् च तत् उज्ज्वलशोणितं [च]। भिन्नेभकुम्भाभ्यां गलदुज्ज्वलशोणितं भि(न्नेभकुम्भगलदुज्ज्वलशो)णितम् । भिन्नेभ (कुम्भगलदुज्ज्वल) शोणितेन अक्तो भि(न्नेभकुम्भगलदुज्ज्वलशोणि)ताक्तः । मुक्ताफलानां प्रकरो मु(क्ताफलप्रक)रः । भिन्ने(भकुम्भगलदुज्ज्वल)शोणिताक्तश्चासौ मुक्ताफलप्रकरश्च भि(न्नेकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफल)प्रकरः । भूमे गो भूमिभागः । भिन्ने(भकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफल)प्रकरेण भूषितो भूमिभागो येन स भि(न्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकरभूषितभूमि)भागः ॥३५।। कल्पान्तकालपवनोद्धतवह्निकल्पं दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव सम्मुखमापतन्तं त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥३६॥ कल्पान्त० ॥ हे नाथ ! त्वन्नामकीर्तनजलं अशेषं दावानलं शमयतीत्यन्वयः । तव नाम त्वन्नाम, त्वन्नाम्नः कीर्तनं त्व(न्नामकीर्त) नम् । त्वन्नामकीर्तनमेवानां अग्रणि(?)(मेव जलम्) । न विद्यते शेषो यत्र सोऽशेषस्तम् । दावस्य अनलो दावानलस्तम् । किम्भूतं दावा(नलं)?, कुन्ताग्रभि०(?)(कल्पान्तकालपवन्तेद्धतवह्नि )कल्पम् । कल्पान्तश्चासौ कालश्च क(ल्पान्तका)लः । कल्पान्तकालस्य पवनः क(ल्पान्तकालपव)नः । कल्पान्तकालपवनेन उद्धतःउत्कटः कल्पा(न्तकालपवनो)द्धतः । कल्पा(न्तकालपवनो)द्धतश्चासौ वह्निश्च

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146