Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
सप्टेम्बर २०१०
उ(द्यद्दिवा)करः । उद्यद्दिवाकरस्य मयूखाः उ ( द्यद्दिवाकरमयू) खा: । उद्यद्दिवाकरमयूखाणां शिखा उ(द्यद्दिवाकरमयूखशि) खाः । उद्य (द्दिवाकरमयूख) शिखाभिरपविद्धं उ(द्यद्दिवाकरमयूखशिखाप) विद्धम् ॥३८॥
१९
I
कुन्ताग्रभिन्नगजशोणितवारिवाह-वेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षास्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ३९॥ कुन्ता० ॥ हे नाथ ! त्वत्पादपङ्कजवनाश्रयिणो जना युद्धे जयं लभन्ते इत्यन्वय: । तव पादौ त्वत्पादौ । पङ्के जायन्ते स्म इति पङ्कजानि । पङ्कजानां वनं प(ङ्कजवनम् ) । त्वत्पादावेव पङ्कजवनं त्व(त्पादपङ्कज) वनम् । त्वात्पादपङ्कजवनं आश्रयन्ते इत्येवंशीलास्त्वत्पादपङ्कजवनाश्रयिणः । जनाः किम्भूता: ?, विजितदुर्जयजेयपक्षाः - निर्जितोत्कटवैरिगणाः । जेतुं योग्या जेया: । जेयानां पक्षो जेयपक्ष: । दुःखेन जयो यस्य स दुर्जयः । दुर्जयश्चासौ जेयपक्षश्च दुर्जयजेयपक्ष: । विजितो दुर्जयजेयपक्षो यैस्ते वि(जितदुर्जयजेयप)क्षा:। युद्धे किम्भूते ?, कुन्ताग्र( भिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोध ) भीमे । भल्लाग्रैः पाटितानां वारणानां रुधिरं तदेव जलप्रवाहस्तस्मिन् वेगावतारात् त्वरितप्रवेशात् तरणे आतुरैः सुभटैः भीष्मं तस्मिन् । कुन्तानामग्राणि कुन्ताग्राणि तैः कुन्ताग्रैर्भिन्नाः कुन्ताग्रभिन्नाः । कुन्ताग्रभिन्नाश्च ते गजाश्च कु(न्ताग्रभिन्न)गजा: । कुन्ताग्रभिन्नगजानां शोणितं कु(न्ताग्रभिन्नगजशोणितम् । वारिणो वाहः वारिवाहः । कुन्ताग्रभिन्नगजशोणितमेव वारिवाहः कु ( न्ताग्रभिन्नगजशोणितवारि) वाहः । वेगेन अवतारो वेगावतारः । कुन्ता(ग्रभिन्नगजशोणितवारि) वाहे वेगावतारः कु(न्ताग्रभिन्नगजशोणितवारिवाहवेगाव ) तारः । तरणे आतुरास्तरणातुराः । कुन्ता (ग्रभिन्नगजशोणितवारिवाह) वेगावतारात् तरणातुराः कु ( न्ताग्रभिन्नगजशोणितवारि वाहवेगावतारतरणा)तुरा: । कुन्ता(ग्रभिन्नगजशोणितवारिवाह)वेगावतारतरणातुराश्च ते योधाश्च कु(न्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुर) योधाः । कुन्ता (ग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुर) योधैर्भीमं कु (न्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोध) भीमं तस्मिन् ॥३९॥
अम्भोनिधौ क्षुभितभीषणनक्रचक्र-पाठीनपीठभयदोल्बणवाडवाग्नौ । रङ्गतरङ्गशिखरस्थितयानपात्रास्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ भो० ॥ हे नाथ ! अम्भोनिधौ सांयात्रिका जना भवतः स्मरणात्

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146