SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २०१० उ(द्यद्दिवा)करः । उद्यद्दिवाकरस्य मयूखाः उ ( द्यद्दिवाकरमयू) खा: । उद्यद्दिवाकरमयूखाणां शिखा उ(द्यद्दिवाकरमयूखशि) खाः । उद्य (द्दिवाकरमयूख) शिखाभिरपविद्धं उ(द्यद्दिवाकरमयूखशिखाप) विद्धम् ॥३८॥ १९ I कुन्ताग्रभिन्नगजशोणितवारिवाह-वेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षास्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ३९॥ कुन्ता० ॥ हे नाथ ! त्वत्पादपङ्कजवनाश्रयिणो जना युद्धे जयं लभन्ते इत्यन्वय: । तव पादौ त्वत्पादौ । पङ्के जायन्ते स्म इति पङ्कजानि । पङ्कजानां वनं प(ङ्कजवनम् ) । त्वत्पादावेव पङ्कजवनं त्व(त्पादपङ्कज) वनम् । त्वात्पादपङ्कजवनं आश्रयन्ते इत्येवंशीलास्त्वत्पादपङ्कजवनाश्रयिणः । जनाः किम्भूता: ?, विजितदुर्जयजेयपक्षाः - निर्जितोत्कटवैरिगणाः । जेतुं योग्या जेया: । जेयानां पक्षो जेयपक्ष: । दुःखेन जयो यस्य स दुर्जयः । दुर्जयश्चासौ जेयपक्षश्च दुर्जयजेयपक्ष: । विजितो दुर्जयजेयपक्षो यैस्ते वि(जितदुर्जयजेयप)क्षा:। युद्धे किम्भूते ?, कुन्ताग्र( भिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोध ) भीमे । भल्लाग्रैः पाटितानां वारणानां रुधिरं तदेव जलप्रवाहस्तस्मिन् वेगावतारात् त्वरितप्रवेशात् तरणे आतुरैः सुभटैः भीष्मं तस्मिन् । कुन्तानामग्राणि कुन्ताग्राणि तैः कुन्ताग्रैर्भिन्नाः कुन्ताग्रभिन्नाः । कुन्ताग्रभिन्नाश्च ते गजाश्च कु(न्ताग्रभिन्न)गजा: । कुन्ताग्रभिन्नगजानां शोणितं कु(न्ताग्रभिन्नगजशोणितम् । वारिणो वाहः वारिवाहः । कुन्ताग्रभिन्नगजशोणितमेव वारिवाहः कु ( न्ताग्रभिन्नगजशोणितवारि) वाहः । वेगेन अवतारो वेगावतारः । कुन्ता(ग्रभिन्नगजशोणितवारि) वाहे वेगावतारः कु(न्ताग्रभिन्नगजशोणितवारिवाहवेगाव ) तारः । तरणे आतुरास्तरणातुराः । कुन्ता (ग्रभिन्नगजशोणितवारिवाह) वेगावतारात् तरणातुराः कु ( न्ताग्रभिन्नगजशोणितवारि वाहवेगावतारतरणा)तुरा: । कुन्ता(ग्रभिन्नगजशोणितवारिवाह)वेगावतारतरणातुराश्च ते योधाश्च कु(न्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुर) योधाः । कुन्ता (ग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुर) योधैर्भीमं कु (न्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोध) भीमं तस्मिन् ॥३९॥ अम्भोनिधौ क्षुभितभीषणनक्रचक्र-पाठीनपीठभयदोल्बणवाडवाग्नौ । रङ्गतरङ्गशिखरस्थितयानपात्रास्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ भो० ॥ हे नाथ ! अम्भोनिधौ सांयात्रिका जना भवतः स्मरणात्
SR No.520553
Book TitleAnusandhan 2010 09 SrNo 52
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy