Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 22
________________ सप्टेम्बर २०१० किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥२१॥ मन्ये० ॥ हे नाथ ! यन्मया हरिहरादय एव दृष्टास्तद्वरं मन्ये । येषु दृष्टेषु त्वयि हृदयं तोषमेति । भवता वीक्षितेन किं स्यात् ? येन अन्यः कश्चिद् भवान्तरेऽपि भुवि मनो न हरति । एकस्माद् भवादन्यो भवो भ(वान्तरम्) ॥२१॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् नाऽन्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्ररश्मि प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥२२॥ स्त्रीणां० ॥ हे नाथ ! स्त्रीणां शतानि शतशः पुत्रान् जनयन्ति । अन्या जननी त्वदुपमं सुतं न प्रसूता । तव उपमा यस्य स त्वदुपमस्तम् । अत्रोपमानं- सर्वा दिशः भानि दधति-धारयन्तीत्यर्थः । प्राच्येव दिग् स्फुरदंशुजालं सहस्ररश्मि जनयति-प्रसूते (ते इ) त्यर्थः । सहस्रं रश्मयो यस्य स सहस्ररश्मिस्तम् । स्फुरन्तश्च तेंऽशवश्च स्फुरदंशवः । स्फुरदंशूनां जालं स्फुरदंशुजालम् ॥२२॥ त्वामामनन्ति मुनयः परमं पुमांस मादित्यवर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥२३॥ त्वामाम० । हे मुनीन्द्र ! मुनयस्त्वां परमं पुमांसं आमनन्ति । त्वां किम्भूतं ?, अमलं, न विद्यते मलो यस्य सोऽमलस्तम् । पुनः किम्भूतं ?, आदित्यवर्णम् । आदित्यस्येव वर्णो यस्य स आ(दित्यवर्ण)स्तम् । कथं ?, परस्तात् । कस्य ? तमस्यः (सः) । त्वामेव सम्यग् उपलभ्य मुनयः मृत्युंकृतान्तभयं जयन्ति-स्फेटयन्ति । अन्यः शिवपदस्य शिवः-निरुपद्रवः पन्था नास्ति ॥२३॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146